वितस्ता
दिखावट
वितस्ता (कश्मीरी: व्येत्, हिन्दी: झेलम्, पञ्जाबी: ਜੇਹਲਮ (गुरुमुखी), उर्दू: دریاۓ جہلم (शाह्मुखी) यवनभाषा:hydaspes) सप्तसिन्धोः एका नदी। पञ्जाबप्रदेशस्य वरिष्टा पश्चिमतमा नदी। सा ऋग्वेदे अपि प्रोक्ता। यवना: तां हैडस्पेस् इति अकथयन्। हैडस्पेस् टैटन् देवेषु अन्यतम: इति ते अमन्यन्त। ३३२ तमे वर्षे अलक्सान्द्रपर्वतकौ अपि अस्याः तीरे एव अयोद्ध्येताम्। बुखेफलनामकस्य अश्वस्य स्मरणार्थम् अलेक्सान्द्रः वितस्तायाः तीरे अलेक्सान्द्रिया बुखेफला नाम पुरीम् स्थापितवान्। वितस्ता कश्मीरे जलाकरात् उद्भूय शुतुद्रीम् संयाति।