वेङ्कटाध्वरिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वेङ्कटाध्वरिः[सम्पादयतु]

वेङ्कटाध्वरिः (Venkatadwari) प्रसिद्धस्य विश्वगुणादर्शनामकस्य चम्पूग्रन्थस्य रचयिता । हस्तिगिरिचम्पूः, लक्ष्मीसहस्त्रं, यादवपाण्डवीयं, सुभाषितकौस्तुभः इत्यादयः ग्रन्थाः अपि एतेन रचिताः सन्ति । एषः रघुनाथदीक्षितस्य पुत्रः । एतस्य माता सीताम्बा । एषः नीलकण्ठदीक्षितस्य समकालीनः । अतः एषः अपि सप्तदशे शतके आसीत् इति निर्णीतम् अस्ति । वेङ्कटाध्वरिः श्रीवैषणवमतानुयायी । विश्वगुणादर्शे स्वतन्त्रकल्पनायाः प्राधान्यम् । कृशानुः विश्वावसुः इत्येतौ गन्धर्वौ एतस्मिन् ग्रन्थे विश्ववैचित्र्याणि निरुपयतः । विमानेन देशपर्यटनं कुर्वन्तौ तौ देश- नगर-नदी-पुण्यस्थलादीनि जनव्यवहारान् च वर्णयतः । एतस्मिन् ग्रन्थे स्तबकादिभागाः न सन्ति । एकैकः विषयः एकैकविभागायते । एतस्मिन् ग्रन्थे पद्यभागस्य एव आधिक्यम् । अनुस्यूता कथा अत्र नास्ति चेदपि मनोज्ञा अभिव्यक्तिः चित्तं रञ्जयति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वेङ्कटाध्वरिः&oldid=444082" इत्यस्माद् प्रतिप्राप्तम्