पश्चिमक्षत्रपाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पश्चिमक्षत्रपाः अथवा सत्रपाः वस्तुतः शकवंशीयाः एव । एते क्रि श ३५-४०५ पर्यन्तं भारतस्य पश्चिमभागे मध्यभागे च शासनम् अकुर्वन् । एतेषां राज्यं सौराष्ट्रे मालवे च प्रसृतम् आसीत् (इदानीन्तनं महाराष्ट्रं, राजस्थानं, मध्यप्रदेशः च) । उत्तरभारतस्य कुशानाः, मध्यभारतस्य शातवाहनाः (आन्ध्राः) च एतेषां समकालीनाः आसन् । ३५० वर्षाणि यावत् शासनम् अकुर्वन् एते । एते २७ राजानः आसन् । "क्षत्रप"शब्दस्य मूलं सत्रपः अथवा पर्षियन्-शब्दः "क्सत्रपवन" इत्येषः । अस्य शब्दस्य अर्थः प्रान्तप्रमुखः अथवा राजप्रतिनिधिः इति ।

"https://sa.wikipedia.org/w/index.php?title=पश्चिमक्षत्रपाः&oldid=431915" इत्यस्माद् प्रतिप्राप्तम्