जलकूर्दनक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Diving
Diving tower at the 2008 Euros
नियामकगणः Fédération Internationale de Natation (FINA)
वैशिष्ट्यसमूहः
वर्गीकरणम् Aquatics
उपस्थितिः
ओलिम्पिक् Part of the Summer Olympic programme since 1904

जलकूर्दनक्रीडा (Diving)[सम्पादयतु]

सन्तरण्स्यैवैका सहयोगिनी क्रिया 'जलकूर्दन’सम्बन्धिनी विद्यते । परमस्या अपि क्रियायाः स्वतन्त्रं महत्त्वं विज्ञाय पृथग् विकासो विहितः । जले कूर्दनाय द्वौ वुधी स्तः ।

१ उच्चभागात् कूर्दनं तथा
२ विविधप्रक्रियाभिः कूर्दनम् ।

कूर्दकाः सन्तरणावदेव वस्त्राणि धारयन्ति । सरसीनां (स्विमिंग पूल्) तटे कूर्दनायोन्नतानि साधनानि निर्मीयन्ते तत्र च स्वयमुच्छालकाः (स्पिंग्युक्ताः) काष्ठपट्टाः नियोज्यन्ते । उच्चतामानेन कूर्दनस्तरावधारणं तथा वैशिष्टयनिर्णयः क्रियते। भिन्न -भिन्नाभ्यः पद्दतिभ्यः कूर्दका जले पतन्ति । यथा -

१ जलेच्छालकं पतनम्
२ विपरीतपतनम्
३ मत्स्याकृत्या पतनम्
४ ह्स्तौ पादौ च् बद्धवा पतनम्
५ प्रलम्बहस्तपादवता पतनम्
६ केवलं हस्तबन्धनेन पादबन्धनेन वा पतनमिति कूर्दनकलायां प्रदर्श्य क्रीडकाः कार्यकौशलं दर्शयन्ति । यः सर्वाधिकानङ्कानावर्जयति स विजयते ।

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जलकूर्दनक्रीडा&oldid=482718" इत्यस्माद् प्रतिप्राप्तम्