महामाया (अमरनाथः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एतत् शक्तिपीठं भारतस्य जम्मू-काश्मीरराज्ये अनन्तनागमण्डलस्य पहलगांवसमीपे अस्ति।

सम्पर्कः[सम्पादयतु]

श्रीनगरतः पहलगांव प्रति ९४.की.मी. बसयानेन आगत्य ततः चन्दनवाडीपर्यन्तं १६.की.मी यावत् पादाभ्यां गतं चेत् अत्र प्राप्तुं शक्यम् ।

वैशिष्ट्यम्[सम्पादयतु]

शक्तिपीठस्य अपेक्षया अमरनाथयात्राकारणतः एतत् स्थानं प्रसिद्धम् अस्ति । अत्रत्यगुहायां वर्षे एकवारं नैसर्गिकरीत्या हिमलिङ्गस्य निर्माणं भवति । तस्य दर्शनार्थम् एव जुलै-आगष्टमासयोः लक्षशः भक्ताः पादाभ्याम् आगमिष्यन्ति । बहूकोटस्य पृष्ठभागस्य गहनारण्येन आवृत्तम् अस्ति पुरातनं महामायामन्दिरम् । अत्रैव त्रिसन्ध्येश्वरमन्दिरम् अपि अस्ति । समीपे एव तावीनदी प्रवहति । ऐतिह्यानुसारम् अत्र सतीदेव्याः कण्ठः पतितः इति विश्वासः । अत्रत्यशिवेन अमरनाथेन सह अमरनाथेश्वरी अपि निवसति इति जनानां विश्वासः ।

"https://sa.wikipedia.org/w/index.php?title=महामाया_(अमरनाथः)&oldid=388951" इत्यस्माद् प्रतिप्राप्तम्