विकिपीडिया:बोट्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

किं नाम बोट्? एतत् पदं (बोट् अथवा बोटः) तु विकिपृष्ठेषु यत्र तत्र दृश्यते। अत्र किञ्चित् प्रविधिज्ञानम् आगच्छति। यथा भवान् जानाति यत् प्रत्येकायां लेखनचेष्टायां (विकिपीडियायां) किञ्चित् काल प्रतीक्षा आवश्यकी भवति, तद्यथा तस्य पृष्ठस्य समवतरणे, तथा च रक्षणे। किं नु भवेत् यदि अस्माभिः एकं सामान्यं लघु परिवर्तनं बहुसु पृष्ठेषु कर्त्तव्यं भवेत्? यथा हि चेत् प्रशासन इति स्थाने सर्वकार इति शब्दः स्थापयितव्यं स्यात्। तदा प्रति शब्दः कथं हि अन्विक्ष्यते, कथं हि परिवर्तनं क्रियते? एतादृशानि परिवर्तनानि न मनुष्यैः सहजं कर्तुं शक्याः। तस्मात् सङ्गणकीयाः क्रमादेशाः (प्रोग्राम् इति) युज्यन्ते अत्र। ते एव क्रमादेशाः अत्र बोट् इति कथ्यन्ते। बोटाः द्रुतगत्या सम्पादनं कर्तुं शक्नुवन्ति। परन्तु चेत् तेषु किञ्चित् त्रुटिः स्यात् तदा ते विकिपीडियायां त्रुटिपूर्णं पाठम् अपि प्रवेशयेयुः। तदर्थं बोटानां कृते नयसंरचना विद्यते।

"https://sa.wikipedia.org/w/index.php?title=विकिपीडिया:बोट्&oldid=452454" इत्यस्माद् प्रतिप्राप्तम्