राष्ट्रियवैमानिकप्रयोगशाला(NAL)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

राष्ट्रियवैमानिकप्रयोगशाला (National Aerospace Laboratory) एषा वैज्ञानिक- औद्योगिक-अनुसन्धानपरिषदः प्रमुखम् अङ्गम् अस्ति । वैमानिकसम्बद्धक्षेत्रेषु भारतस्य सर्वश्रेष्ठं संशोधनसंस्थानमस्ति । अस्याः स्थापना १९५९ तमे वर्षे नवदेहल्याम् अभवत् । १९६० तमे वर्षे बेङ्गळूरुनगरम् प्रति आनीता । अस्याः मुख्यः उद्देशः तु विज्ञानद्वारा विमानयानानां निर्माणं तथा प्रयोगः । वैमानिकक्षेत्रे पूर्णतया इयं व्याप्ता अस्ति । इयं लघु तथा मध्यमस्तरीयं विमानं निर्माति । कतिचित् वर्षेषु एव एषा उन्नतां स्थितिं आप्नोत् । प्रगतदशके ६० कोटि डालर्मूल्यानां ४०० परियोजानां प्राप्तवती । अत्र न केवलं भारतीयानां विदेशीयानाम् अपि प्रशिक्षणं दीयते । गतेभ्यः कतिचिद्वर्षेभ्यः स्वस्य आयस्य ६० प्रतिशतं बाह्यमूलतः एव प्राप्तवती । एषा सीएसआईआर प्रयोगशालानाम् अद्वितीया उपलब्धिः । विफलताविश्लेषणकेन्द्रत्वेन अपि एषा मान्यतां प्राप्तवती अस्ति । अन्तरिक्षे याः दुर्घटनाः सम्भवन्ति तासां कारणं परिहारः च एतया निवार्यते । एतेषु शब्दपरीक्षणसौलभ्यं, वरीवर्तयन्त्राणि, दहनानुसन्धानसौलभ्यं, सम्मिश्रसंरचनाप्रयोगशाला , कृष्णपेटिका, एवं विमानसम्बद्धाः सर्वे विषयाः तत्र सन्ति । अत्र उद्योगिनां संख्या अस्ति १२५० । तेषु ३५० संशोधनविकासक्षेत्रेषु विद्यावारिधिपदवीधराः । अस्याः अरम्भः १९५९-६० तमे वर्षे बेङ्गळूरुनगरे पूर्वतनमहाराजस्य प्रासादे एव अभवत् । डा. पी नीलकण्ठन्, डा. एस् आर् वल्लूरी, प्रो.आर् नरसिंहः, डा. के एन राजू , डा. टी एस प्रह्लाद तथा डा.बी आर पै च भूतपूर्वनिर्देशकाः सन्ति । तेषां प्रतिबद्धतायाः कारणात् अस्याः विकासः अभवत् ।

बाह्यानुबन्धः[सम्पादयतु]