पञ्चसूनादोषपरिहारः
मनुस्मृतौ (६-६८, ६९) पञ्चसूनादोषपरिहारः पञ्चमहायज्ञानां हेतुत्वेन निर्दिष्टः । तत्र अयमाशयः यद् गृहस्थस्य दैनंदिनगृहकार्येषु अपरिहार्यतया सूक्ष्मजन्तूनां हिंसा भवति अथवा वस्तूनां जीवनशक्तिह्रासरुपा सूक्ष्मार्थेन हिंसा भवति । तं हिंसादोषं मार्जयितुम् एते पञ्चमहायज्ञाः शास्त्रकारैः उपदिष्टाः । परन्तु पञ्चसूनादोषपरिहाररुपः हेतुः याथार्थ्यविधुरः इति प्रतिभाति । प्रथमं तावत् कल्पसूत्रेषु पञ्चसूनादोषस्य कुत्रापि नामापि न श्रूयते । यदि सूनाजनितं पापं यज्ञजनितपुण्येन नश्यति इति ब्रूमः तर्हि पञ्चयज्ञानां नित्यकर्मत्वेन विहितत्वात् न तादृशं पुण्यमपि उपलभ्यते इति न विस्मर्तव्यम् । नापि प्राचीनेषु यज्ञप्रधानेषु शास्त्रेषु यत्र पञ्चमहायज्ञानां मूलम् उपलभ्यते एतादृशः सूक्ष्महिंसाविचारः कुत्रापि श्रूयते । प्रत्युत प्राचीनयज्ञानां पशुबलिसमेतानां हिंसापरत्वं प्रसिध्दमेव । अतः बौध्दजैनमतप्रभावोऽयम् इति वक्तुं शक्यते, एतादृशस्य सूक्ष्महिंसाविचारस्य तत्रैव उपलब्धत्वात् ।