शौचम्
पावित्र्यसंकल्पनायां शुचितायाः महत्त्वं वादातीतम् । आरोग्यदृष्ट्या रोगजन्तूनां निवारणार्थं जलेन मृत्तिकया वा इन्द्रियाणां प्रक्षालनं सावधानेन मनसा कुर्वन्ति स्म अस्माकं पूर्वजाः । अतिथिसत्कारविधौ प्रवासपरत्वात् पांसुबहुलगात्रस्य अतिथेः पादप्रक्षालनं नाम महत्त्वसंयुतः विधिः इति कृत्वा विस्तरशः उपवर्णितः शास्त्रेषु । तथा केवलं शरीरशुध्द्या न ते आत्मानं कृतार्थान् अमन्यन्त । अपि तु मनसः शुध्दिः, बुध्देर्वा शुध्दिः अपि तेषाम् अभिमता आसीत् । तत्रोक्तं मनुना (५-१०९)-
- अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
- विद्यातपोभ्यां भूतात्मा बुध्दिर्ज्ञानेन शुध्यति ॥
आधुनिके अर्थप्रधाने युगे भ्रष्टाचारः प्रामुख्येन धनसम्बन्धितेषु व्यवहारेषु एव दृष्टिगोचरो भवति । सार्वजनिकसंस्थासु अर्थविभागप्रमुखेन निष्कलङ्कचरित्रेण भाव्यम् इति सर्वैः अपेक्ष्यते । मनुनापि अस्मिन् विषये आग्रहपूर्वकम् एतादृशी शुचिता उपदिष्टा । तत्रोक्तम् (५-१०६)-
- सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
- योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥
शौचप्रकरणे एव स्पृश्यास्पृश्यविचारः अपि अन्तर्भूतः अस्ति । स्नानानन्तरं धौतवस्त्रं कौशेयं वा परिधाय यदा कोऽपि देवप्रतिमापूजार्थं सिध्दो भवति तदा स्वपुत्रपौत्रादिकानाम् अपि स्पर्शं शुचितारक्षणाय परिहरति । मासिकधर्मं पालयन्तीं रजस्वलां स्त्रियं दिनत्रयपर्यन्तं वैद्यकशास्त्रानुसारेणा अस्पृश्यां मन्यन्ते कुटुम्बिनः । जन्ममरणादिसमयेऽपि शास्त्रानुसारं दशदिनपर्यन्तं जननाशौचं मरणाशौचं च प्रतिपालयन्ति स्म कुटुम्बिनः । कीदृशः कुटुम्बसदस्यः कीदृशम् अशौचं पालयेद् इत्यादिविषये विस्तरशः नियमाः उपदिष्टाः शौचाशौचपालने आग्रहशीलैः पूर्वजैः । अति सर्वत्र वर्जयेत् इति नीतिवचनम् अनादृत्य सारासारविवेकहीनः अदूरदृष्टिः कश्चित् व्यवहारः यदा औचित्यसीमाम् उल्लङ्घयति तदा स व्यवहारः समाजविघातकः संजायते । अद्ययावत् हिन्दुसमाजे अतिशूद्रसम्बन्धे प्रचलितः स्पृश्यास्पृश्यविचारः कदा वा कथं प्रारब्धः इति न सुस्पष्टम् । अतिशूद्रस्य च्छायापि परिहर्तव्या इति आसीत् शुचितादक्षाणां धारणा । अनेन अमानवीयेन व्यवहारेण गौरवशाली इति मान्यतां प्राप्तः अयं हिन्दुसमाजः कथं कलङ्कितः तथा भेदभावनाभिः जर्जरितः सन् दुर्बलताम् आपन्नः इति न परोक्षं प्रेक्षावताम् ।
भगवत्कृपया हिन्दुहितदक्षया विश्व –हिन्दु –परिषदा उडुपीनगरे सम्पन्ने परिषदः अधिवेशने सर्वसम्प्रदायप्रमुखैः धर्माचार्यैः प्रस्तावोऽयं पारितः यद् शास्त्रेषु अस्पृश्यतायाः कोऽपि आधारः नास्ति । ‘हिन्दवः सोदराः सर्वे न हिन्दुः पतितो भवेत्’ इति सर्वैः एकमुखेन उद्घोषितम् । अत्र केवलं शास्त्राद् रुढिर्बलियसी इति वचनं प्रमाणं मत्वा जनेषु इयं कुप्रथा प्रचलिता इति प्रतीयते । तत्रापि अपवादः अयम् अनुमोद्यते यत् ‘तीर्थयात्राप्रसङ्गेषु स्पृष्टास्पृष्टिर्न विद्यते’ इति ।