कुन्दाद्रिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Kundadri
Kundadri Hills
Kundadri Hill
Kundadri Hill
उत्तुङ्गता ८२६ m (२,७१० ft)
स्थानम्
location in Karnataka
Coordinates १३°३३′२७″ उत्तरदिक् ७५°१०′१३″ पूर्वदिक् / 13.55750°उत्तरदिक् 75.17028°पूर्वदिक् / १३.५५७५०; ७५.१७०२८निर्देशाङ्कः : १३°३३′२७″ उत्तरदिक् ७५°१०′१३″ पूर्वदिक् / 13.55750°उत्तरदिक् 75.17028°पूर्वदिक् / १३.५५७५०; ७५.१७०२८

कुन्दाद्रिः (Kundadri) कर्णाटकस्य् शिवमोग्गमण्डले विद्यमानः कश्चन पर्वतः । एषः पर्वतः शिवमोग्गमण्डलस्य तीर्थहळ्ळि उपमण्डले अस्ति । तीर्थहळ्ळितः आगुम्बे गमनस्य मार्गे गुड्डेकेरि इति ग्राम प्राप्यते । ततः ९ कि.मी.दूरे कुन्दाद्रिः अस्ति । अयं पर्वतः जैनानां पवित्रं यात्राक्षेत्रम् अस्ति । प्रतिवर्षं सहस्राधिकाः पर्यटकाः चारणप्रियाः च आयान्ति । पर्वतमस्तकात् यत् दृश्यते तत् मनोहरं दृश्यम् । परितः सर्वत्र वनराजिः, कृषिक्षेत्राणि वाटिकाः च दृश्यन्ते ।

इतिहासः[सम्पादयतु]

अस्मिन् पर्वते कुन्दस्वामी तपः आचरितवान् इति प्रतीतिः । अतः अस्य गिरेः कुन्दाद्रिः इति नाम आगतम् । कन्नडभाषया 'कुन्द'नाम दुर्गः इति अर्थः । अत्र आवृतः पर्वतः दुर्ग इव अस्ति इति कारणेन कुन्दाद्रिः इति नाम आगतम् इति स्थलीयाः वदन्ति ।

वसतिः[सम्पादयतु]

कुन्दाद्रेः मस्तके मन्दिरे जलादीनां व्यवस्थाः सन्ति । समीपस्थे तीर्थहळ्ळिग्रामे अथवा आगुम्बेग्रामे उषितुमर्हन्ति ।

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुन्दाद्रिः&oldid=481492" इत्यस्माद् प्रतिप्राप्तम्