कन्नडविश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कन्नडविश्वविद्यालयः
कन्नडविश्वविद्यालयस्य कुलपतिः
कन्नडविश्वविद्यालयस्य कुलपतिः

बेङ्गळूरुतः ३४० कि.मी. दूरे कमलापुरप्रदेशे वस्तुसङ्ग्रहालयः अस्ति । समीपे कन्नडविश्वविद्यालयः कार्यरतः अस्ति । श्री चन्द्रशेखरकम्बारमहोदयः अस्य संस्थापककुलपतिः अभवत् । वर्तमानः कुलपतिः डा. ए.मुरिगेप्पमहोदयः अस्ति । कर्णाटकस्य कन्नडस्य च विषये शोधं सञ्जालनार्थं च अयं विश्वविद्यालयः संस्थापितः वर्तते । सर्वविधज्ञानं कन्नडराज्ये कन्नडेन एव प्राप्तव्यम् तथा च कर्णाटकस्य विषये अन्यसु भाषासु अपि ज्ञानं प्रापणीयम् इति अस्य विश्वविद्यालयस्य उद्देशः ।

"https://sa.wikipedia.org/w/index.php?title=कन्नडविश्वविद्यालयः&oldid=392086" इत्यस्माद् प्रतिप्राप्तम्