राष्ट्रं भवति सर्वस्वम् (नाटकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


ले.प्र - डा कीर्तिवल्लभ: शक्टा (शाकटायन:) सैनिकानां जीवनम् अधिकृत्य लिखितं सप्ताङ्कोपेतं नाटकमिदम् । ‘नाटकस्य आरम्भे नाटककार: निवेदयति यत् ‘सैनिकानां लघुविश्रामशिबिरस्य निकटे मम आवास: विद्यते । अनेन अत्र आगतानां सैनिकानां गतिविधिं तेषां कठिनतरं सैन्याभ्यासं च अवलोक्य मनसि नाटकस्यास्य कल्पना सञ्जाता’ इति । तदनुसृत्य एव नाटकस्य रचना कृता दृश्यते । सरलया भाषया आधुनिकं विषयम् अधिकृत्य नाटकमिदं लिखितम् अस्ति इति तु विशेष: । दिल्लीसंस्कृत-अकादम्या: आर्थिकसहयोगेन एतत् नाटकं प्रकाशितम् अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]