शबरिगिरिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शबरिगिरिः श्री धर्मशास्ता देवालयः

शबरिगिरिः (मलयालम् - ശബരിമല) हिन्दूनां तीर्थक्षेत्रेषु अन्यतमं विद्यते । इदं क्षेत्रं केरलराज्ये पत्तनन्तिट्टामण्डले पश्चिमपर्वतश्रेणीषु विराजते । प्रतिवर्षं जगतः विविधेभ्यः भागेभ्यः उपपञ्चाशत्कोटिसंख्याकाः जनाः अस्य तीर्थक्षेत्रस्य दर्शनाय आगमिष्यन्ति । हिन्दुदेवः अय्यप्पः महिषिनामकस्य बलवतः राक्षसस्य संहरणानन्तरम् अस्मिन् शबरिगिरौ दीर्घं तपः कृतवान् इति कथा श्रूयते । अयम् अय्यप्पमन्दिरं १८ पर्वतैः युक्तायां श्रेण्यां विद्यते । अयं देवालयः समुद्रस्तरात् ४६८ मीटर्-अक्षांशे गभीरारण्ये सुन्दरपरिसरे विद्यते । शबरिगिरिं परितः विद्यमानेषु सर्वेषु अपि पर्वतेषु देवमन्दिरं विद्यते ।

"https://sa.wikipedia.org/w/index.php?title=शबरिगिरिः&oldid=369135" इत्यस्माद् प्रतिप्राप्तम्