ब्राह्मीकषायम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ब्राह्मीपत्राणि

ब्राह्मीपत्रैः निर्मितं कषायम् एव ब्राह्मीकषायम् । एषा ब्राह्मी आङ्ग्लभाषायां Centella asiatica इति वदन्ति ।

अस्य ब्राह्मीकषायस्य प्रयोजनानि[सम्पादयतु]

१ एतत् ब्राह्मीकषायम् आरोग्यार्थं बहु उत्तमम् ।
२ ब्राह्मीकषायस्य पानेन पीनसः, कासः, कफः, उदरवेदना, कीटबाधा इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
३ शैत्यकालस्य वृष्टिकालस्य च आरम्भे पूर्वजागरूकतायाः दृष्ट्या एतत् ब्राह्मीकषायम् पातुं शक्यते ।
४ बालानां कृते मासत्रयाभ्यन्तरे वा एकवारम् एतत् ब्राह्मीकषायं दातव्यम् ।
५ ब्राह्मीकषायस्य पानेन स्मरणशक्तिः अपि वर्धते ।
६ अस्य ब्राह्मीकषायस्य पानेन उच्चारणम् अपि स्पष्टं भवति ।

अस्य ब्राह्मीकषायस्य निर्माणम्[सम्पादयतु]

ब्राह्मीपत्राणि सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=ब्राह्मीकषायम्&oldid=369319" इत्यस्माद् प्रतिप्राप्तम्