वैषयिकसप्तमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विषयतादिसम्बन्धमूलकः आधारः वैषयिकः । अत्र संयोगः समवायो वा न भवति । अतः औपश्लेषिकाभिव्यापकातिरिक्तः सर्वः अपि आधारः वैषयिकः इति ज्ञेयम् । यथा – पठने इच्छा अस्ति । पठनविषयिणी इच्छा इत्यर्थः । अत्र पठनम् आधारः । सम्बन्धश्च विषयता, न संयोगः समवायो वा । इदं ज्ञेयम् – पक्षिणः आकाशे डयन्ते । शिष्यः गुरौ वसति । इत्यादीनि वैषयिकस्यैव उदाहरणानि । न हि अत्र संयोगः समवायो वा सम्बन्धः । अतो यत्र संयोगसमवायसम्बन्धौ न भवतः तत्र सर्वत्रापि वैषयिकः आधारः इति निश्चेतव्यम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वैषयिकसप्तमी&oldid=409736" इत्यस्माद् प्रतिप्राप्तम्