पलाण्डुलशुनकषायम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लशुनम्
पलाण्डुः

पलाण्डुं लशुनं च योजयित्वा निर्मितं कषायम् एव पलाण्डुलशुनकषायम् । एतत् लशुनम् आङ्ग्लभाषायां Garlic इति, पलाण्डुं Onion इति च वदन्ति ।

पलाण्डुलशुनकषायस्य प्रयोजनानि[सम्पादयतु]

१ एतत् पलाण्डुलशुनकषायम् आरोग्यार्थं बहु उत्तमम् ।
२ पलाण्डुलशुनकषायस्य पानेन पीनसः, कासः, कण्ठवेदना, शरीरवेदना, शिरोवेदना, कफः, उदरवेदना, कीटबाधा इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
३ वृष्टिकालस्य शैत्यकालस्य च आरम्भे एव सामान्यानां रोगाणां निवारणार्थम् अपि एतत् पलाण्डुलशुनकषायं पातुं शक्यते ।
४ पलाण्डुलशुनकषायं प्रतिदिनम् अपि पानीयत्वेन अपि पातुं शक्यते ।
५ एतत् पलाण्डुलशुनकषायं तदा तदा निर्माय पातुम् अपि शक्यते ।
६ एतत् कषायं बालेभ्यः अपि दातुं शक्यते ।

पलाण्डुलशुनकषायस्य निर्माणम्[सम्पादयतु]

पलाण्डुं लशुनं च त्वक् निष्कास्य सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र जीरिकाचूर्णं, शुण्ठीं, मरीचचूर्णं, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=पलाण्डुलशुनकषायम्&oldid=369343" इत्यस्माद् प्रतिप्राप्तम्