अवदानशतकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


ज्ञातेष्ववदानग्रन्थेषु अज्ञातकर्तृकम् अवदानशतकम् प्राचीनतमम् । ख्रीष्टतृतीयशताब्द्याः पूर्वार्धभागे ग्रन्थस्यास्य चीनभाषानुवादो जातस्तेन प्रथमा द्वितीय वा ख्रिष्टशताब्दी ग्रन्थस्यास्य रचनाकालो निर्धारयितुं शक्यते । ख्रीष्टशताब्दीपूर्वकालप्रणीतस्त्वयं ग्रन्थो नास्ति, यतोऽत्र दीनारशब्दप्रयोगः प्राप्यते । नहि ततो बहुपूर्वकाले दीनारशब्दः प्रचिलितप्रयोग आसीत् । दशकाव्येषु खण्डेषु विभज्यमानस्यास्य ग्रन्थस्य विनयपिटकाधारता प्रतीता । अत्र साहित्यिकगौरवं स्वल्पमात्रम् ,अधिकं शिक्षादापकत्वमेव । ऎतिहासिककथानामपि निवेशोऽत्र विद्यते, यथा बिम्बसारस्य पत्नी श्रीमति बुध्दशेषास्थिपूजापरायणा तत्पूजानिषेधिकाया अजातशत्रोराज्ञाया उल्लङ्घनेन राजादेशात्रिहतो भूत्वा स्वर्गं गतेति ।

अवगदानशतकम्
avadaanashataka
अवगदानशतकम्
"https://sa.wikipedia.org/w/index.php?title=अवदानशतकम्&oldid=404215" इत्यस्माद् प्रतिप्राप्तम्