अर्थव्यक्तिः
दिखावट
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
संपूर्णवाक्यत्वमर्थव्यक्तिः । अर्थबोधने वाक्यं यत्र निराकांक्षं भवति तत्रार्थव्यक्तिः । अर्थगतमनेयत्वमर्थव्यक्तिरिति दण्डी प्रोवाच । अस्यैवार्थदीपनमिति नामान्तरम् । यथा –
- भाग्यं मध्यमलोकनिघ्नमधुना येनास्य संरक्षिता
- जातः खेलति वीररुद्रनृपतिर्निस्सीमशौर्योदयः ।
- यद्वा त्रीण्यपि विष्टपानि दधते धन्यत्वमंशो हरेः
- यत्साक्षादवतीर्यकाकतिकुले स्वैरं समुज्जृम्भते ॥