वाङ्मे मनसि प्रतिष्ठिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मन्त्रः -[सम्पादयतु]

॥ॐ॥ वाङ्मे मनसि प्रतिष्ठिता। मनो मे वाचि प्रतिष्ठितम्।
आविरावीर्म एधि। वेदस्य म आणीस्थः।
श्रुतं मे मा प्रहासीः। अनेनाधीतेनाहोरात्रान् सन्दधामि।
ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु।
अवतु माम्। अवतु माम्। अवतु वक्तारम्॥
॥ॐ शान्तिः शान्तिः शान्तिः॥

अर्थः -[सम्पादयतु]

वाङ्मे मनसि प्रतिष्ठिता। अध्ययनकाले ग्रन्थपाठे प्रवृत्ता मदीया वाक् मनसि प्रतिष्ठिता भवतु।
मनो मे वाचि प्रतिष्ठितम्। मनश्च मदीयं वाचि प्रतिष्ठितं भवतु। उभयोः एकाधारत्वं भवतु इत्यर्थः। यतः एवं अन्योन्यानुहृहीते वाङ्मनसे विद्यार्थग्रन्थं साकल्येन अवधारयितुं शक्नुतः।
आविरावीर्म एधि। अत्र आविश्शब्देन स्वप्रकाशं ब्रह्मचैतन्यमुच्यते। एवम्भूतः हे आविः! आत्मन्! मदर्थम् आविरेधि, आविर्भव। अर्थात् अविद्यावरणापनयनेन प्रकटीभव। अत्र तु मन्त्रे "आवीर्म एधि" इति दैर्घ्यप्रयोगः छान्दसप्रयोगः।
वेदस्य म आणीस्थः। अर्थात्, हे वाङ्मनसी! युवां मम ज्ञानस्य आणिनी आनेतृणी स्तः। आनयनसम्र्थे स्तः इत्यर्थः।
श्रुतं मे मा प्रहासीः। अर्थात्, मया श्रुतं ज्ञानं मत्सकाशात् न निर्गच्छतु, विस्मृतं माभूदित्यर्थः।
अनेनाधीतेनाहोरात्रान् सन्दधामि। एवं प्रकारेण विस्मरणरहितेनाध्ययनेन अहोरात्रान् संयोजयामि। अर्थात्, अहनि रात्रौ च आलस्यं परित्यज्य निरन्तरं पठामि इत्यर्थः। तथा च, उक्तम् "अज्ञेभ्यो ग्रन्थिनः श्रेष्ठाः ग्रन्थिभ्यो धारिणो वराः। धारिभ्यो ज्ञानिनः श्रेष्ठाः ज्ञानिभ्यो व्यवसायिनः॥" इति। एतादृशः व्यवसायी भवेयमिति प्रार्थना क्रियते।
ऋतं वदिष्यामि। सत्यं वदिष्यामि। अत्र एवं विवेकः, मनसा अभिव्यञ्जितं तथ्यम् ऋतम्। वचसा अभिव्यञ्जितं तथ्यं सत्यम्। तथा च, मनसा तथ्यं सम्यग्विचार्य निर्धार्य वचसा वाचा वदिष्यामि इत्यर्थः।
तन्मामवतु। तद्वक्तारमवतु। एवं पूर्वोक्तरीत्या परिपालितेन व्रतेन तुष्टं ब्रह्मतत्वं मां शिष्यं सम्यग् बोधेन पालयतु। तथा, तत्तत्वं वक्तारं आचार्यं बोधकत्वसामर्थ्यप्रदानेन पालयतु।
अवतु माम्। अवतु माम्। पुनरपि ’अवतु माम्’ इत्युक्तिः फलविषया। पूर्वं साधनकाले शिष्याचार्ययोः पालनं प्रार्थितम्। इदानीम् फलकालेऽपि प्रार्थ्यते। तत्र यावत्, शिष्यस्य अविद्याकार्यनिवृत्तिः फलम्। आचार्यस्य तु विद्यासम्प्रदायसंरक्षणजनितः सन्तोषः फलम्।
अवतु वक्तारम्। अवतु वक्तारमिति द्विवचनम् अध्यायपरिसमाप्त्यर्थम्, समाप्तिद्योतकम्।
ॐ शान्तिः शान्तिः शान्तिः। अन्ते च ॐ-वाच्यस्य ब्रह्मणः स्मरणेन आधिभौतिक-आधिदैविक-आध्यात्मिक-प्रपञ्चानाम् अत्यन्तं शमनमस्तु इति धिया ॐकारात् परं त्रिवारं शान्तिरिति पठ्यते।

सम्बद्धाः लेखाः[सम्पादयतु]