पौष्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयोध्याकुले जातः ध्रुवसन्धिः हिरण्याभस्य पौत्रः । पुष्यः एतस्य पिता । अतः एतस्य अपरं नाम पौष्यः इति । तस्य पत्नीद्वयम्। लीलावती मनोरमा चेति । मनोरमा निषधदेशाधिपतेः वीरसेनस्य पुत्री । लीलावत्याः पुत्रं शत्रुजितं उत्तराधिकारिरूपेण नियोक्तुम् इच्छति ध्रुवसन्धिः । तदा मनोरमा पुत्रस्य सुदर्शनस्य यौवराज्याभिषेकं कर्तुम् इच्छन्ती पितुः वीरसेनस्य समीपे स्वेच्छां प्रकटयति । वीरसेनः अयोध्यायाः उपरि आक्रमणं करोति ।जामातृश्वशुरयोः युद्धे वीरसेनस्य मरणं भवति । मनोरमा पुत्रेण सुदर्शनेन सह देशन्तरं गत्वा प्रयागे भारद्वाजमहर्षेः आश्रमे तिष्ठति । पुत्रविरहेण ध्रुवसन्धिः मरणं प्राप्नोति । लीलावत्याः पुत्रः शतृजित् मातुलस्य युधाजितः साहाय्येन राजा अभवत् । किन्तु अनन्तरं सुदर्शनः एव राजा भविष्यति । ‎

"https://sa.wikipedia.org/w/index.php?title=पौष्यः&oldid=373942" इत्यस्माद् प्रतिप्राप्तम्