त्यागराजाराधनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यागराजाराधनम्
Location(s) तिरुवायूरु, तमिळुनाडु, भारतम्
Years active 1846 - Present
Date(s) January / February

श्रीत्यागराजमहोदयः नाटककर्तारः वाग्गोयकाराः आसन् । सङ्गीतद्वारा एव जनजागर्तिं कृतवन्तः । श्रीरामभक्तानां दक्षिणभारते एव प्रसिध्दानां सङ्गीतज्ञानाम् आराधनामहोत्सवं प्रतिवर्षं जनवरीमासे दक्षिणभारते आचरन्ति ।

श्रीत्यागराजाः क्रिस्तशके १७६७ तमे वर्षे तमीळुनाडुराज्ये तञ्जावूरुसमीपे तिरुवय्यागुग्रामे जन्म लब्धवन्तः । एतेषां पिता श्रीरामब्रह्मञ्त्नां संस्कृत पण्डितः आसीत् । पितामहः गिरिराजः अपि कविरासीत् । एते तेलगु मूलिकिनाडु वंशस्थाः आसन् बाल्ये एव त्यागराजः श्री रामभक्ताः सन्तः संस्कृत तेलगु भाषानिपुणः सङ्गीतासक्त च आसीत् । वेदशास्त्राध्ययनेन साकं सङ्गीतम् अधीतवन्तः । एतेषां सङ्गीतगुरवः शुण्ठी वेङ्कटरमणय्य महोदयः । श्रीरामकृष्णयतिभिः श्रीरामतारक मन्त्रोपदेशं प्राप्तवन्तः स्वयं गीतानि रचयन्तः सङ्गीतयोजनमपि कर्तुं प्रवृत्ताः अभवन् । विवाहानतरम् अतिकष्टेन जीवननिर्वहणं कृतवन्तः श्रीत्यागराज महोदयाः तिरुवाङ्कूरुराजस्य आस्थानविद्वत्प त्पदवीं न स्वीकृतवन्तः । श्रीनारदमहर्षिणा प्रभाविताः त्यागराजमहोदयाः स्वरार्णव इति कृतिं श्रीनारदान् प्राप्तवन्तः ।- इति प्रतीतिः अस्ति ।

दक्षिणभारते प्रसिध्दैः श्रीपुरन्दरदासकनकदासादिभिः तेलगुकीर्तनकारैः श्रीरामदासैः च प्रभाविताः श्रीत्यागराजमहोदयाः तेलगुसंस्कृतभाषयोः अष्टशताधिकानि गीतानि रचितवन्तः । स्वकृतिषु समाजे येन्धविश्वासाः, असदाचाराः, सम्प्रदायदोषाः इत्यादीन् खण्डितवन्तः । श्रीत्यागराजानां कीर्तनानि पण्डितानां तथा सामान्यानां सङ्गीतज्ञानां च अतीव प्रियाणि सन्ति । ‘एन्दरो महानुभावुलु अन्दरिकि वन्दनमुलु', ‘जगदानन्दकारक’ ‘कनकरुचिरा’ इत्यादिकीर्तनानि अत्यन्तं प्रसिध्दानि सन्ति ।

एकदा श्रीत्यागराजानाम् आराध्यायाः श्रीराममूर्तेः अपहरणम् अभवत् । तदा श्रीत्यागराजाः 'नेनेन्दु वेदकुदुरा हरि' इति गीतवन्तः । अतिदुःखिताः अभवन् । अन्ते नद्यां स्नानसमये सा मूर्तिः लब्धाऽभवत् । तदा श्रीत्यागराजमहोदयाः ‘कनुकोण्डिमि श्रीरामुनी’ इति गीतं रचयित्वा भक्त्या श्रीरामसेवानिरताः अभवन् ।

श्रीत्यागराजानां गीतानि ‘त्यागराजोपनिषत्’ इति ख्यातानि सन्ति । सङ्गीतसाहित्यसेवायां निरताः शिष्यैः साकं भारतयात्रां कृतवन्तः श्रीत्यागराजमहोदयाः सर्वत्र गौरवं प्राप्तवन्तः । श्रीत्यागराजाः १८४७ तमे वर्षे जनवरीमासस्य पञ्चमे दिने शिष्येभ्यः ‘श्वः मम अन्तिमं दिनम् इह भूमण्डले’ इति सूचितवन्तः । शिष्याः दुःखिताः भक्ताः च गीतानि गायन्तः एव श्रीगुरवे गौरवं दत्तवन्तः । ६ जनवरी १८४७ तमे दिने श्रीत्यागराजाः दिवङ्गताः अभवन् । तेषां स्मारकः तिरुवय्यारुग्रामे निर्मितोऽस्ति ।

समग्रे देशे पुष्यकृष्णपक्षे पञ्चम्यां तिथौ श्रीत्यागराजजयन्त्यु उत्सवम् आचरन्ति । श्री त्यागराजस्य् आराधनाप्रसङ्गे सङ्गीतोत्सवः सम्पूर्णदिने प्रचलति देशे स्थिताः बहवः सङ्गीतज्ञाः अत्रआगच्छन्ति । स्वीयं श्रध्दाञ्जलिं सङ्गीतद्वारा समर्पयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=त्यागराजाराधनम्&oldid=345731" इत्यस्माद् प्रतिप्राप्तम्