कुमारव्यासजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुमारव्यासः


'रुपकसाम्राज्यचक्रवर्ती' इति कन्नडसाहित्ये प्रख्यातः कुमारव्यासः महाकविः श्रीवीरनारायणस्य परमभक्तः आसीत् । अस्य पूर्व नाम नारणप्प इति आसीत् । कर्णाटकभारत कथामञ्जरी महाकाव्यं जयन्ती कार्यक्रमं वैभवेण आचरन्ति । श्रीनारणप्पा गदगजिल्लायाः अण्णीगेरीनगरसमीपे कोळिवाडग्रामे पञ्च्दशे शतके जन्म प्राप्तवान् । अस्य पिता लक्करसः । कुमारव्यासस्य जन्म स्मार्त ब्राह्मणपरिवारे अभवत् । नारणप्पाः स्वप्ने अश्वत्थामाचायेभ्यः महाभारतस्य कथायाः उपदेशं प्राप्तवान् । ततः भामिनीषट्पदीं स्वीकृत्य महाभारतस्य द्शपर्वविषयान् सुन्दरतया निरुपितवान् इति जनानां विश्वासः अस्ति ।

गदगनगरे श्रीवीरनारायणमन्दिरे श्रीवीरनारायणं पूजयित्वा नारणप्प एतत् सुन्दरं काव्यं विरचितवान्इदानीमपि एकस्मिन् स्तम्भे श्रीवीरनारायणमन्दिरे श्री कुमारव्यासस्य स्मरणं कर्तुं ‘कुमारव्यासस्तभ्य’ इति कथनं प्रचलति । नारणप्पः स्वीये काव्ये “ कविः साक्षात् वीरनारायणः अहं तु केवलं लिपिकार्ः इत्युक्तवान् । व्यास महाभारतस्य एव षट्पदीकाव्ये अद्भुतं निरुपणं कुमारव्यासस्य प्रतिभां प्रदर्शयति । कुमारव्यासानुसारं महाभारते श्रीकृष्ण एव नायकः । अत एव ‘कृष्णकथां कथयामि’ इति कविः सूचितवान् । नवरसभरितं भक्तिज्ञानयुक्तिसङ्गतं महाकाव्यं सर्वेषां विमर्शकाणां प्रीतिपात्रं महाकाव्यं कर्णाटभारतकथामञ्जरी गदुगिनभारत इत्यादि नो प्रसिध्दमस्ति ।

द्वादशे शतके शरणानां क्रान्तेरनन्तरं पुनः हरिभक्तिसुधां स्यन्दयत् महाकाव्यमेतत् अनेकेषां जनानां दैनन्दिन पठनकाव्यमस्ति । कविः कुवेम्पुः कुमारव्यासनु हाडिदनेन्दरे कलियुगद्वारवागुवदु’ इति प्रशंसां कृतवान् । महाकवेः सुन्दररुपकाणि, उपमानानि, शब्दप्रयोगाः, शब्दचमत्काराः नीतिवचनानि, भक्तिभावप्रकटनं सर्वमद्भुतमस्ति । महाकाव्यपठनेनैव सर्वे विषयाः द्रष्टिगोचराः भवन्ति ।

‘श्रीवनितेयरसने विमलराजीवपीठन सुतने’ इत्यारम्भः कृतः अस्ति महाकाव्ये । महाकविः स्वग्रन्थस्य कृते ‘अरसुगळिगिदु वीर, द्विजरिगे परमवेदद सार, योगीश्वर रतत्वविचार, विरहिगळश्रृङ्गार इत्यादिभिः विवरणं दत्तवान् । कर्णाटकराज्ये सर्वत्र श्रीकुमारव्यासजयन्तीम् आचरन्ति । तस्मिन् दिने विशेषतः कर्णाटक भारतकथामञ्जर्याः पठनं ‘गमकवाचनम्’ इति कार्यक्रमे प्रचलति । महाकाव्य विषये चर्चाः उपन्यासाः प्रचलन्ति । कर्णाटक भारत कथामञ्जरी काव्यभागान् सर्वे गमकवाचनकर्तारः सगौरवं वाचयन्ति ।

महाकाव्ये भक्तिभावस्य सर्वत्र उल्लासः अस्ति । कविः श्रीकृष्णस्यागमनं अद्वितीयरुपेण सन्तोषेण कृतवान् । महाकाव्ये अनुप्रासालङ्काराः यमकालङ्काराः अपूर्वाः सन्ति गदुगिनभारतं काव्यं प्राचीनमहाकाव्यपरंपरायां सम्मिलितमस्ति । पम्परन्नादिभिः यत्कृतं तत्सदृशं एतत् महाकाव्यं काव्यरसिकानाम् आनन्ददायकम् अस्ति । कोळीवाडग्रामे कुमारव्यासपरिवारजनैः जयन्तीदिनं महोत्सव इव आचर्यते । कन्नडजनाः सगौरवं श्रीकुमारव्यासस्य जयन्तीसमये कविं काव्यं च स्मरन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुमारव्यासजयन्ती&oldid=484316" इत्यस्माद् प्रतिप्राप्तम्