प्रशस्तपादः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रशस्तपादनामकः आचार्यः वैशेषिकसूत्रेषु उपस्कारभाष्यं रचितवान् । अनेन वैशेषिकत्तत्वानाम् अवबोधाय पदार्थधर्मसंग्रहस्यापि रचना कृता । वर्तमाने वैशेषिकसूत्रार्थं बोधयिंतु प्रशस्तपादभाष्यमेव प्रामाणिकं मन्यते । परमाणुवादः सृष्टिः, प्रलयः, प्रामाणानि, गुणाश्चेति प्रशस्तपादभाष्यस्य प्रतिपाद्यविषयाः वर्तन्ते । प्रशस्तपादभाष्योक्तानां विषयाणां न्यायभाष्ये उपयोगो विहितः, बौद्धाचार्येण वसुबन्धुना च तत्खण्डनं कृतम्, अतः आभ्यां प्रमाणाभ्यां प्रशस्तपादस्य कालः एतत्पूर्ववर्ती अथवा प्रथम-द्वितीयशताब्दमिति स्वीकर्तुं शक्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रशस्तपादः&oldid=409448" इत्यस्माद् प्रतिप्राप्तम्