सोलिगजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सोलिगजनाङ्गस्य मूलस्थानानि[सम्पादयतु]

एते चामराजनगरमन्डलस्य यळन्दूरुउपमण्डलस्य बिळिगिरिरङ्गनबेट्ट, कोळ्ळेगाल-उपमण्डलस्य मलेमहदेश्वरबेट्ट इत्यादिषु प्रदेशेषु दृश्यन्ते । एतान् सोलिग, सोलग, शोलग, शोलिग, सैलिग च इत्यादि नाम्ना निर्दिशन्ति । एतेषां नामसम्बद्धविषयाः, जन्ममूलानि च पौराणिककथासु, कल्पितकथागर्भेषु च विलीनाः सन्ति । केवलम् ऊहाः आधारीकृत्य एतेषाम् इतिहासस्य पुनारचना करणीया अस्ति ।

सोलिगजनाङ्गे कुलव्यवस्था[सम्पादयतु]

सोलिगजनेषु कुलं त्यक्त्वा केऽपि न जीवन्ति । सोलिगजनाः कुटुम्बतः भयं न अनुभवन्ति चेदपि कुलतः भयम् अनुभवन्ति । बिळिगिरिरङ्गनबेट्टप्रदेशस्य सोलिगजनेषु पञ्चकुलानि सन्ति । अन्यत्र सप्तकुलानि सन्ति । बिळिगिरिरङ्गनबेट्टप्रदेशस्य उपत्यकायां केवलं न , अपि तु पर्वतस्य अन्य-उपत्यकासु पञ्चकुलस्य सोलिगजनाः सन्ति । काळिकाम्बकालोनी, कुण्टगुडि, गोडेमडु, पुणजूरु, बाणवाडि, बूदिपडग, बेल्लत्त, भद्रेगौडस्य पोडु, भूतण्णिपोडु, मारिगुडिपोडु, यत्तेगौडस्य दोड्डि, शनिवासरमण्टि, श्रीनिवासकालोनि, हित्तलगुड्डे इत्यादिषु स्थानेषु पञ्चकुलस्य सोलिगाः सन्ति । चामराजनगरस्य मुनेश्वरकालोनि, कोळ्ळेगालस्य अनेकेषु प्रदेशेषु सप्तकुलस्य सोलिगाः सन्ति ।

सोलिगजनाङ्गीयानां कुलानि[सम्पादयतु]

  • १. तेनेयर कुलम्
  • २. होङ्गेलर कुलम्
  • ३. सूर्यकुलम्
  • ४. बेल्लरकुलम्
  • ५. हालरकुलम्
  • ६. जेनुकुलम्

७. कुम्बळुकुलं च । एतेषु न केवलं कुलविभागाः अपि च अन्तर्गणाः सन्ति । काडुसोलिग, मलेसोलिग, बुरुडेसोलिग च इत्यादि गणाः सन्ति । हेग्गडदेवनकोटे परितः प्रदेशे ‘देवरसोलिग’ इति कश्चन गणः अस्ति इति ज्ञातमस्ति । पूर्वम् एतेषु अपहरणविवाहस्य, पलायनविवाहस्य, सेवाविवाहस्य पद्धतयः आसन् । इदानीम् एतादृशाः विवाहाः न चलन्ति । अङ्गीकृतः विवाहः एव भवति । बिळिगिरिरङ्गनाथस्वामी सोलिगजनानाम् आराध्यदैवः । सोलिगजनाङ्गीयस्य बोम्मनगौडस्य पुत्रीं कुसुमालां रङ्गनाथस्वामी वृतवान् इत्यनेन रङ्गनाथस्वामी स्वेषाम् आवुत्तः भवेत् इति एते वदन्ति । जडेस्वामी, कारय्य, बिल्लय्य च एतेषां पूज्यदैवाः । सोलिगानां व्यक्तिनामानि विशिष्टानि सन्ति । उदाहरणार्थं :- केतेगौड, जडेगौड, पन्देगौड, बेदेगौड, कोल्लेगौड, मादेगौड च इत्यादि नामानि पुरुषाणां भवन्ति । दैतम्म, पन्दम्म, बोम्मम्म, मसणम्म, रङ्गम्म, हलगम्म च इत्यादीनि स्त्रीनामानि भवन्ति । पर्वसु ‘रोट्टिपर्व’ विशिष्टम् अस्ति एतेषाम् । सोलिगजनानां व्यापकं जनपदसाहित्यमस्ति । यथेष्टानि तर्जनपदानि अपि सन्ति । ‘विवेकानन्दगिरिजनकल्याणकेन्द्रम्’ सोलिगजनानाम् अभिवृद्ध्यर्थं कार्यं करोति । डा. हेच्. सुदर्शनः एतस्य कल्याणकेन्द्रस्य नेता । सोलिगप्रभेदः दक्षिणद्राविडभाषावर्गे योजितः अस्ति । एषा कन्नडस्य उपभाषा अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=सोलिगजनाङ्गः&oldid=367247" इत्यस्माद् प्रतिप्राप्तम्