मयणल्लदेवी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



इतिहासः[सम्पादयतु]

क्रि.श.सप्तमे शतके दक्षिणभारते पूर्णं चालुक्यानां सार्वभौमत्वं आसीत् । क्रि.श.एकादशे शतके चालुक्यजनानाम् एव अन्यविभागः पश्चिमचालुक्याः इति नाम्ना इदानीन्तनगुजरात्प्रदेशे शासनं कुर्वन्ति स्म । भीमः अत्रत्यः प्रख्यातः राजा । एतस्य पत्नी उदयमती । कर्णः एतयोः पुत्रः । क्रि. श १०२२ तमे वर्षे एषः सिंहासनारूढः जातः । एतस्य मातृभक्तिः लोकविख्याता आसीत् । महाभारतस्य कुन्तीपुत्रं कर्णं स्मृत्वा एतम् 'अभिनवकर्णः’ इति वदन्ति स्म । मयणल्लदेवी एतस्य पत्नी । सौजन्येन, पातिव्रत्येन, राजनीत्या तथा चाणाक्षतया च सा पतिम् आकृष्टवती ।

समर्था प्राशासिका[सम्पादयतु]

मयणल्लदेवी अमात्यस्य मुञ्जालस्य सहकारेण राज्यव्यवस्थासु बहूनि परिवर्तनानि पत्युः द्वारा कारितवती । कालान्तरे एषा सिद्धराजनामकम् एकं पुत्ररत्नं प्रसूतवती । सिद्धराजस्य कारणतः चालुक्यजनानां प्रतिष्टा गौरवं च अधिकम् अभवताम् । बाल्यादेव सिद्धराजं राजोचितगुणैः पालितवती । मातुः सद्गुणानां कारणतः सिद्धराजः 'महाराजाधिराजः’जातः । एवम् एषा आदर्शपातिव्रत्येन, मातृत्वेन, सतीत्त्वेन विराजिता अस्ति एषा। राज्ञः कर्णस्य राज्यशासने तस्य संरक्षणे च महत्वं पात्रं निरूढवती । अहमदाबादनगरस्य ‘कर्णावती’ इति नामकरणं कृतवती विराङ्गना मयणल्लदेवी । ""

"https://sa.wikipedia.org/w/index.php?title=मयणल्लदेवी&oldid=406485" इत्यस्माद् प्रतिप्राप्तम्