सम्भाषणम्:नरसिंहमहेता
मीराबाई १४९८ - १५४७
[सम्पादयतु]मीराबाई कृष्णभक्क्त: आसीत। सा कृष्णं स्वीयपतित्वेन चिन्तितवती। तस्य अनुलक्ष्य सा अनेकानि भक्तिगीतानि रचितवती। एतानि प्राय: सखीभावेन लिखितानि सन्ति। मेवाडस्य् निवासिनी, भुतभावीना च सा कृष्णभक्ते: कारणात् सर्वविधं सुखं त्यक्त्वा प्रतिग्रामं भ्रमित्वा साध्वी इव अभवत्। मीराबाई कृष्ण्भक्तिम् अधिकृत्य अनेकानि गीतानि अस्मभ्यम् अदात। विशेषत: तस्या: पद्यानि व्रजभाषायां मारवाडीभाषायां च वर्तन्ते।
मीराबाई संवत् १४४७ वर्षे जोधपुरे मेडता समीपे चोकडीग्रामे (अद्यतने राजस्थाने पाली इति मण्डले) जन्म प्राप्नोत्। तस्या: पिता रतनसिंह्: उदयपुरस्य स्थापकस्य राजराठोडस्य वंशज: आसीत। यदा मीरा त्रिवर्षीया आसीत तदा तस्या: गृहं कश्चित् संन्यासी आगत:। स च कृष्ण्स्य क्रीडनकरनपाम् एकां मूर्तिं तस्या: पित्रे दत्तवान्। तस्या: पिता तां मूर्तिमाशीर्वादरूपेण स्वीकृतवान्। बालिकायै सा मूर्ति: न रोचिष्यते इति चिन्तयित्वा पिता तां मूर्तिं तस्यै न दत्तवान्। परन्तु प्रथमेक्षणेन एव सा मूर्ति: पुत्र्यै अरोचत। तां मूर्तिं प्राप्तुं सा प्रायोपवेशनं कर्तुम् उद्यता। मीराया: कृते सा मूर्ति: कृष्ण्स्य मूर्तिमत् अस्तित्वम् अभूत्। तत: मीरा कृष्णमेव मित्रत्वेन पतित्वेन च वृतवती। बाल्यकालीनमेनमभिग्रहं सा जीवनस्य झाझावातेडपि पर्यपालयत्।