विकिपीडिया:विकिपीडियायां किं कार्यं कुर्याम्?

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अत्र संस्कृतविकिपीडियायां बहवः जनाः स्वकार्येण संस्कृतसेवां कर्तुम् इच्छन्ति, बहवस्तत्र पृच्छन्ति यत् किं कार्यं करणीयम् अस्ति अत्र इति। तेषां साहाय्यार्थम् एतत् पृष्ठं कल्पितमस्ति।
अत्र विकिपीडियाया एकस्याः पूर्णतायै किं किम् आवश्यकं भवति इति मत्या कार्याणाम् आवलिः लिखिता अस्ति। अनेन सहैव केचित् निर्देशाः अपि वर्तन्ते येन विकिपीडियायाः प्रामाणिकत्वम् अपि भवेत्।

के के लेखाः रचनीयाः[सम्पादयतु]

एतस्मिन् विषये बहुषु विकिपीडियासु सूच्यः विद्यन्ते। एतस्मिन् विषये आङ्ग्लविकिपीडियायाः सूची अत्रास्ति- en:wikipedia:vital articles एते सर्वे लेखाः विश्वस्मिन् जालविहारिभिः बहुधा दृष्टाः इति कृत्वा अत्र सम्मेलिताः। यद्यपि प्रत्येकभाषाभाषिवर्गे केचिद् विषयाः प्रमुखाः वर्तन्ते ये अन्यत्र अप्रमुखाः। तत्सर्वं विचार्य एषा सूची प्रयोज्या। अनेन सर्वेषां प्रमुखानां विषयाणां सङ्केतः अपि प्राप्यते, येन नूतनाः अपि विषयाः चिन्तने आगच्छेयुः।
संस्कृतविकिपीडियायामपि एतादृशी एका आवलिः कृताऽस्ति- विकिपीडिया:लेखाः ये तु विकिपीडियायाः स्थेयसम्पूर्णतायै अस्यां भाव्याः इति।

बाह्यतन्तूनां विषये[सम्पादयतु]

विकिपीडियालेखेषु बाह्यसम्पर्कतन्तूनि (external links) विद्यन्ते अथवा भवितुम् अर्हन्ति। तेषां प्रयोजनं तु महद् अस्ति। विकिपीडिया तु अध्ययनस्य आरम्भभूमिं प्रददाति। अत्र लेखानां दैर्घ्यं सीमितं भवितुम् अर्हति। पुनश्च न हि अत्र दीर्घम् अनुसन्धानं भवितुम् अर्हति। तस्मात् कस्मिँश्चित् विषये अधिकतरा सूचना इष्यते चेत् अन्यत्रापि द्रष्टव्यं भवति। तस्माद् बाह्यतन्तूनि दीयन्ते। भवता स्वकार्यक्रमे जाले किञ्चित् महती प्रयोजनकारिणी वा सूचना प्राप्यते चेत् तस्य योग्यं लेखं विचिन्त्य तस्य सम्पर्कतन्तुः तत्र योजनीयः। येन संस्कृतविकिपीडिया तु जालविहारिणां कृते अध्ययनस्य प्रारम्भस्थली सम्भविष्यति।

लेखानां नूतनीकरणम्[सम्पादयतु]

विकिपीडियायां नैकाः लेखाः परिवर्तिनीं सूचनां धारयन्ति। यथा हि देशसम्बन्धिन्यः सूचनाः, संस्थासम्बन्धिन्यः सूचनाः चादीनि। तेषां लेखानां सततं नवीनीकरणम् अपेक्षितं भवति।

वर्गाणां पुनर्निरीक्षणम्[सम्पादयतु]

वर्गाः तु लेखानां समूहीकरणार्थं विद्यन्ते। सततं यदा बहवः विविधमतिशालिनः लेखकाः अत्र लेखाः रचयन्ति तदा तेषां वर्गाणां कदाचित् असङ्गतता भवति कदाचिच्च एकस्य एव वर्गस्य विविधनामभिः अस्तित्वं सम्भवति। एतस्य निवारणार्थं सततं वर्गाणामपि पुनरीक्षणं कैश्चित् योगदातृभिः करणीयं भवति। येन वर्गाणां व्यवस्था समीचीना भवेत्।