प्राचीनः चिकित्सालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


छत्तीसगढसाम्राज्ये सिरपुरपरिसरे उत्खननावसरे एषु दिनेषु कस्यचन प्राचीनस्य चिकित्सालयसय अवशेषाः प्राप्ताः सन्ति । अत्र सामान्यचिकित्सया सह शस्त्रचिकित्सायाः व्यवस्था, रोगिणाम् आवासाय व्यवस्था चापि आसीत् ।

१८७२ तमे वर्षॆ प्रवृत्तस्य उत्खननस्य कारणतः महानदीतीरस्थाः सिरपुरपरिसरीयाः प्राचीनावशेषाः बहवः प्राकाश्यं गताः । तदवसरे अलेक्साण्डर्-कन्निङ्गह्यामः पुरातत्व- सर्वेक्षणविभागस्य निर्देसकः आसीत् । तस्मिन् काले २२ शैवमन्दिराणि, केचन बौद्ध-जैनविहाराः च उत्खननात् सम्प्राप्ताः । २००० तमे वर्षे अरुणकुमारशर्मवर्यस्य नेतृत्वे प्रवृत्तात् उत्खनात् पुनः २५ भवनरचनाः अपि अभिज्ञाताः ।

८२ वर्षीयः पुरातत्वसर्वेक्षणविभागस्य निवृत्ताधिकारी श्री अरुणकुमारशर्मा एषु दिनेषु अत्रत्यस्य उत्खननकार्यस्य मार्गदर्शनं करोति वेतनं किमपि अस्वीकुर्वन् । छतीसघढसर्वकारेण सः एतस्मिन् कार्ये नियोजितः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्राचीनः_चिकित्सालयः&oldid=409451" इत्यस्माद् प्रतिप्राप्तम्