वसन्तरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वसन्तरागः (Vasant/Basant Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । अयं प्राचीनः ग्रामरागः वसन्तरागः भवति । वसन्तकालस्य सुस्वरूपं सूचयति, एवम् अन्वर्थनाम अपि भवति । "हिण्डोळरागस्य" जन्यरागः भवति । रागमालाग्रन्थे अयं बसन्तरागः शृङ्गाररसं प्रतिपादयति इति निरूपितम् अस्ति । उत्तमसाहित्येन सहितेन गानेन शोतृणां मनसि अपि तादृशैव चित्रणम् आयाति । प्रातः कालीनः सन्धिप्रकाशकः रागः भवति । वसन्तकाले समयस्य निर्बन्धः नास्ति । सम्पूर्णं षाडव जात्यासहितः रागः भवति । वादि तारषड्जस्वरः (स) भवति । संवादि मध्यमस्वराः (म) भवन्ति । अस्यैव रागस्य बसन्तरागः इत्यपि व्यवहारः अस्ति ।

शिखण्डि-बर्हिच्छय(बर्होच्चय)-बद्धचूडः,
कर्णावतंसीकृतशोभमानः।
इन्दीवरश्यामतनुर्विलासी,
वसन्तकः स्यादतिमञ्जुलश्री॥
  • आरोहः- स ग म ध रे स
  • अवरोहः- रे नि ध प, म ग म ग रे स
  • पक्कड- नि ध प, म ग म ग रे स

समयः[सम्पादयतु]

सायं ६ तः ८ वादनपर्यन्तं प्रशस्तः कालः ।

थाट्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वसन्तरागः&oldid=480931" इत्यस्माद् प्रतिप्राप्तम्