शशाङ्कासनम्
दिखावट
शशाङ्कासनं योगासनस्य एकम् आसनमस्ति ।
आसनकरणविधिः
[सम्पादयतु]- वज्रासने उपविशतु ।
- शनैः पूरकेण हस्तद्वयं ऊर्ध्वम् उत्तोलयतु ।
- रेचकेण शनैः हस्तद्वयं पुरतः प्रसार्य करतलद्वयं भूमौ संस्थाप्य कूर्परं यावत् हस्तद्वयं भूमौ स्थापयतु ।
- ललाटमपि भूमौ स्थापयतु ।
- निमेषं यावत् तस्यामवस्थायां स्थित्वा पूरकेण शनैः शनैः वज्रासनं प्रति आगच्छतु ।
लाभः
[सम्पादयतु]- अन्त्रं ,यकृत्, अग्न्याशयः, मूत्रग्रन्थिः इत्यादयः बलं प्राप्नुवन्ति ।
- चिन्ताक्रोधादयः मानसिकरोगाः दूरीभवन्ति ।
- स्त्रीणां गर्भशयः दृढः भवति ।
- उदरस्य नितम्बयोश्च स्थूलता न्यूनीभवति ।