वक्रासनम्
दिखावट
वक्रासनं योगासनस्य एकम् आसनमस्ति ।
आसनकरणविधिः
[सम्पादयतु]- दण्डासनेन उपविश्य दक्षिणपादं जानुतः पुटीकृत्य वामजानोः समीपे स्थापयतु ।
- वामपादम् ऋजुतया स्थापयतु ।
- वामहस्तमुत्तोल्य वामबाहुना दक्षिणजानुः स्पृशतु ।
- वामहस्तेन दक्षिणपादस्य अङ्गुष्ठं गृह्णातु ।
- ग्रीवां कटीं च शरीरस्य दक्षिणपार्श्वं प्रति वक्रीकृत्य पश्यतु ।
लाभः
[सम्पादयतु]- कटीदेशस्य स्थूलतायाः ह्रासः भवति ।
- यकृत, मूत्रग्रन्थिः, प्लीहा च स्वस्थाः भवन्ति ।
- अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ न्रिर्माणे सहायकः भवति ।