विकिपीडिया:विकिपीडियायां संस्कृतप्रयोगनिर्देशिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

(प्रारूपम्)
विकिपीडियायां संस्कृतभाषायाः प्रयोगे बहवः संशयोत्पादकाः विषयाः आगच्छन्ति। तेषां निर्णयः कथं स्यात् तदर्थं एषः लेखः। यत्रापि मतवैभिन्न्यं स्यात् तद्विषये विचारमण्डपे चर्चा कर्त्तुं शक्यते, नूतना च बहुमता नीतिः अत्र लेखितुं शक्यते।

सन्धिः[सम्पादयतु]

शिष्टैः लेखनसमये सदैव सन्धिः प्रयुक्ता। तस्मात् तदेवास्माकम् आदर्शः स्याद् इति केचन मन्यन्ते। अपरे च मते सामान्यजनानां पठनसौविध्यार्थं सन्धिः यथाशक्ति निवारितव्या। यस्मात् उभे एव मते प्रबले स्तः, तस्मात् उभेऽपि स्वीकृते। परन्तु एकस्मिन् लेखे अशेषतया एकस्या एव शैल्याः प्रयोगः समत्वेन स्याद् इति अवधारितव्यम्।

लेखशीर्षकेषु सन्धेः प्रयोगः कर्त्तव्यं न वेति न निर्णीतम् अस्ति। प्रायेण एतत् प्रशस्यं स्याद् यद् वास्तविके शीर्षके सन्धिः कर्त्तव्या परन्तु सन्धिरहितात् शीर्षकात् पुनर्निर्देशनम् अपि कर्त्तव्यम्।
यथा-
भारतस्य इतिहासः तथा च भारतस्येतिहासः

योजकचिह्नम्[सम्पादयतु]

संस्कृतस्य मूलग्रन्थेषु योजकचिह्नं न दृश्यते। कामं तत्र अनेकार्थाः भवेयुः, योजकचिह्नं न प्रयुक्तम्। परन्तु आधुनिके युगे नूतनानां नाम्नाम् याथातथ्यम् अभिव्यक्त्यर्थं विकिपीडियायां यदा कदा योजकचिह्नस्य प्रयोगः कर्त्तव्यं स्यात्।

प्राविधिकशब्दानां प्रयोगः[सम्पादयतु]

प्राविधिकशब्दानां (तान्त्रिकशब्दानां वा) प्रयोगे सावधानता स्याद् यत् एतादृशाः शब्दाः पूर्वे अपि कुत्रचित् प्रयुक्ताः स्युः, अन्यथा तत् तु लेखकस्य स्वेच्छया लेखनम् एव भविष्यति। सङ्गणकशब्दानां प्रयोगविषये एतस्य कोशस्य प्रयोगः कर्त्तव्यम् इति निर्णीतम् अस्ति। अन्येषु ज्ञानशाखासु संस्कृतकोशाः वर्तन्ते चेत् तेषां सूचना विचारमण्डपे दातुं शक्यते, येन तेषां प्रयोगे अपि निर्णयः स्यात्।