पाटलपुष्पम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पाटमपुष्पम्
पाटमपुष्पम्

पुष्पाणां राज्ञी इति ख्यातं पाटलपुष्पं सुगन्धेन, सैन्दर्येण च अन्यानि सर्वाणि अतिशेते, अस्मिन् अनेके औषधीयगुणाः अपि विद्यन्ते । पाटलपुष्पस्य अर्कं सज्जीकृत्य औषधत्वेन उपयोगं कुर्वन्ति । पाटलरसः (Rose water) गुलकन्दश्च विपण्यां लभ्यमानं पाटलनिर्मितं वस्तु वर्तते ।

उपयोगाः[सम्पादयतु]

  • चर्मणः वर्णव्यत्यये, पित्तेन जाते व्रणशोथे च पाटलस्य प्रयोगः परिणामकारी । व्रणानं उपरि अनेन अवचूर्णनं (Dusting) कुर्वन्ति । शरीरे ,स्वेदगन्धः विद्यते चेत् तस्य निवारणाय पाटलपुष्पस्य लेपं चर्मणि लेपयन्ति ।
  • मस्तिष्कदौर्वल्येन ये उद्वेगादिदोषाः गोचरिताः भवन्ति पाटलं तत्र सौमनस्य जनकं कार्यं करोति । इदं बुद्धिशक्तिमपि वर्धयति ।
  • पाटलं जठरस्य, अन्त्रस्य, यकृतः च बलदायकम्, इदं मृदुविरेचकम्, जीर्णाङ्गसम्बद्धरोगान् कोष्ठवातान् च निवारयति । अल्पप्रमाणे सेवनं अतिसारं प्रवाहिकां च अवरुणद्धि । रक्तजव्याधिनां, रक्तपित्तस्य च उपशामकशक्तिः अस्मिन् विद्यते ।

नपुंसकतानिवारणाय पाटलस्य अर्कसेवनं परिणामकारि । अस्य गन्धः सम्भोगशक्तिः वर्धयति । शीतगुणोपेतमिति कारणेन दाहं प्रशमयति । धातून् वर्धयति । ज्वरे अस्य सेवनं हितकरम् । ‘पन्नीरुं’ नामकं पाटलमेव पातालप्रभेदेषु श्रेष्ठतमम् । तस्य दलानि चिकित्सार्थं उपयुज्यन्ते । पाटलदलैः निर्मितेन गुलकन्देन पानकं निर्मातुं शक्यते ।

सेवनप्रमाणम्[सम्पादयतु]

गुलकन्दम् १०-२० ग्रां परिमितं , अर्कं (Rose water) २०-४०- मि.ग्रां परिमितं, चूर्णं ३-६ ग्रां परिमितं च सेवितुं शक्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पाटलपुष्पम्&oldid=409405" इत्यस्माद् प्रतिप्राप्तम्