सम्भाषणम्:प्लूटो-ग्रहः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्लूटो कश्चन ग्रहः। प्लूटो नामकः अयं ग्रहः हिन्दूचिन्तने यमः इति निर्दिश्यते । अयं ग्रहः १९३० तमे वर्षे "क्लैड् टाम्बाग्" अन्विष्टवान् । सौरकुटुम्बे नवमः ग्रहः इति निर्दिश्यते। अस्य ग्रहस्य विस्तारः १८०० मैल्-परिमितः । अस्य ग्रहस्य षरान्नामकः उपग्रहः अस्ति । स्वस्य परिभ्रमणाय अयं ग्रहः ९ घण्टाधिक ६ दिनानि स्वीकरोति । सूर्यं परितः भ्रमणाय २४७.७ वर्षाणि स्वीकरोति । लोवेल्ल १९१५ तमे संवत्सरे नूतनग्रहाणाम् अन्वेषणाय अपेक्षितं गणितं कृतवान्। क्लिष्टानि नूतनसूत्राणि अनेन अर्पितानि। अज्ञातग्रहाय एक्स्(x)इति नामस्थापनमकरोत्। अस्य अन्वेषणे मग्नाः इति। एतदर्थमेव एकं दूरदर्शकं निर्मितवन्तः। लोवेल्ल वीक्षणालयस्थाः अस्य आशयं पूरितवन्तः। १९३० तमे संवत्सरे जनेवरि मासस्य २१,२३,२९ तथा फेब्बर्वरि मासस्य १९ तमे दिनेषु पूरितवन्तः। अस्यैव वीक्षणालयस्थाः स्वीकृतेषु छायाचित्रेषु नूतनं ग्रहमेकं दृष्टवन्तः। एते यदा अस्य पथस्य अनुसरणं कृतवन्तः,तदा अयं ग्रहः "पर्सिपेल् लोवेल्लेन" सूचितेन मार्गेण एव परिक्रमति इति ज्ञातवन्तः। अस्मै एव यमः(प्लोटो)इति नामकरणमकरोत् । अस्य संशोधनानन्तरं पूर्वतनछायाचित्राणां परिशीलनेन एवम् अस्यैव ग्रहस्य बिम्बः तत्रापि अस्ति इति हेतोः, अस्य पथस्य निष्कर्षस्य कार्यं सुलभतरं जातम्। आकाशे प्रत्येकस्मिन् अङ्गुले विद्यमानानां प्रकाशसहितानां नक्षत्राणां शोधनम् उत नामकरणकार्यं असाध्यकरकार्ये भवतः। तेषां छायाचित्राणि भवन्ति चेत्, ईदृश संशोधनकार्याणि सूलभकार्याणि भवन्ति इति अस्याः घटनायाः अनन्तरं ज्ञातं भवति। लोवेल् १९१६ तमे संवत्सरे दिवङ्गतः। किन्तु अस्य मरणकालात् एकसंवत्सरात् पूर्वमेव अस्यैव शिष्यः क्लैव टाम्बागाय प्रथमवारं दृष्टिगोचरः सञ्जातः यमग्रहः(प्लोटो) इति। लोवेलेन सूचितस्थलास्य ६ डिग्रि समीपे दृष्टिगोचरः सञ्जातः। एरिजोनायां विद्यमानाः लोवेल् वीक्षणालयस्थाः १९३० तमे संवत्सरीय मार्च मासस्य १३ दिनाङ्के अमुं विषयं लोकाय दर्शितवन्तः। शैत्यकाले अयं ग्रहः मिथुनराशौ नक्षत्रपरिमाणे दृश्यते। क्रमशः सम्भूयमानस्य प्रकाशस्य व्यत्यासान् परिशील्य एवम् अतिसूक्ष्म छायाचित्राणि परिशील्य च १९७८ तमे संवत्सरे अमेरिकादेशस्य जेम्स् क्रिस्ट्मि (प्लोटो)यमस्य विद्यमान एकैक शेरान्नामकम् उपग्रहं संशोधितवान्।