फलकम्:मुख्यपृष्ठं -आधुनिकलेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बेङ्गळूरु

"बेङ्गलूरु"(Bangalore) नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति। बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते। एतत् मण्डलमपि। बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति। २००६ तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम्। एतत् नगरं कर्णाटकस्य अत्यन्तं महत् नगरम्। अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति। बेङ्गलूरुनगरे ५१% जनाः भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः सन्ति। बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति। (अधिकवाचनाय »)