वरदक्षिणा
विवाहवेलायां कन्यापिता वराय विविधान् उपचारान् कुर्यात्, दक्षिणां दद्यात् इति दुष्टा पद्धतिरस्माकं देशे रू ढमूला । एताम् उन्मूलयितुं शासनं कृतम् इति अत्यन्तं स्वागतार्ह् । किन्तु क्वचित् क्वचित् अस्य शासनस्य दुरुपयोगोऽपि जायते । पतिगृहम् आगता वधूः अल्पीयसा कारणेन क्रुद्धा पत्युः पतिबन्धूनां चोपरि आरक्षकस्थाने आक्षेपं समर्पयति । तदा ते सर्वे बन्धनम् अनुभवन्ति । वध्वाः स्वेच्छाचारं विरुध्य यदि श्वशुरौ आक्षिपतः, तदा वरदक्षिणायै पीडयत इति वधूर्वदति । एतादृशेषु सन्दर्भेषु बन्धून् त्रासयितुं वध्वः शासनमिदम् उपयुञ्जते । एतत् सर्व् आकलस्य सर्वो न्यायालयेन आरक्षकाः अनुशासिताः । काचन नवोढा बन्धून् आक्षिप्य आरोपं कृतवती इत्येतावन्मात्रेण बन्धनं न कार्य् । यदि वरदक्षिणायै पीडा दत्तेति साक्ष्यं वर्तते, यदि अन्ये आधाराश्च विद्यन्ते, तदा एव बन्धनं कर्तव्यम्, नान्यथेति । इदं युक्ततपम् । सर्वाः वध्वः साध्व्य इति, पतिबन्धवः सर्वे दुष्टा इति च भावना न श्रेयसी । न्यायः सत्यम् अनुसरेत् । निष्कारणं बन्धूनां बन्धनं न भवेत् । आरक्षकाः निष्पक्षपाताः सर्वान् रक्षेयुः ।