सहजशङ्खमुद्रा
दिखावट
करणविधानम्
[सम्पादयतु]हस्तयोः मुष्ठिं कृत्वा अङ्गुष्टद्वयमपि समानान्तरेण योजयित्वा ऊर्ध्वमुखं स्थापनीयम् ।
परिणामः
[सम्पादयतु]योगशास्त्रे उक्तानां - इडा, पिंगला, सुषम्ना, गान्धारि, हस्तिजिह्वा, पूषा, यशस्सिनि, आलंबूषा, कुहू, शंखिनि इत्यादि दश नाडीनां उपरि प्रभावः भूत्वा शरीरस्य बलं वर्धते ।
उपयोगः
[सम्पादयतु]- व्यक्तिः सूक्ष्मग्राही भवति ।
- शंखिनिनाडि कार्यप्रवृत्ता भूत्वा मूलाधारस्य कुंडलिनीशक्तिं ऊर्ध्वगामिनीं करोति ।
- स्तम्भनशक्तेः वृद्धिः भूत्वा संतानप्राप्ते सौकर्यं भवति ।
- मूलव्याधिः शान्तं भवति ।
- अस्खलितवाणी, मधुरस्वरः, पचनशक्तिः, जठरः, अन्त्रं च सर्व कार्ये इयं मुद्रा शङ्खमुद्रा इव परिणामकारिणी अस्ति ।