मानवरहितविमानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मनुष्यविहीनानां आकाशयानानां कतिपय प्रकाराः

मानवरहितविमानम् (आङ्ग्लः-unmanned aerial vehicle, संक्षेपेण: UAV) भवति स्वयंक्रियं विमानम् । अस्य विमानस्य परिचलना साक्षात् मनुष्येण न क्रियते । दूरवर्तिस्थलात् विमानमिदं चालितम् भवति । एतेन विशेष-सामरिककौशलेन दूरवर्ती स्थले आक्रमणं तथा सुक्ष्मनिरीक्षणं कर्तुं शक्यते । मानवरहितविमानम् एवञ्च आग्नेयास्त्रम्(मिशैल्) इत्यनयोः पार्थक्यम् भवति‌-

  • यद्यपि आग्नेयास्त्रं दूरात् नियन्त्रीयते तथापि इदं इन्धननिर्भरं भवति ।
  • परन्तु मानवरहितविमानम् वायुप्रवाहः अन्यप्राकृतिकावस्थानुगुणं चालितं भवति ।

वर्तमानकाले सर्वपेक्षया चर्चितं मानवरहितविमानम् अस्ति ड्रोन् । अस्य यानस्य उपयोगः सर्वाधिकतया सामरिककार्येषु क्रियते । वैमानिकयुद्धेषु विमानचालकस्य प्राणहानिः अथवा शत्रुपक्षेण बन्द्याशङ्का दूरीकरणाय एव मानवरहितविमानस्य उपयोगः क्रियते । ड्रोन् इत्यस्य आभिधानिकः अर्थः भवति गुञ्जनम् ।

डी आर डी ओ निशान्त्[सम्पादयतु]

निशान्त् एकं मानवरहितविमानम् (यू ए वी) यत् भारतस्य वैमानिक-विकाश-प्रतिष्ठानेन(DRDO) निर्मितम् । इयं संस्था भारतस्य रक्षामन्त्रलयस्य एका शाखा ।

"https://sa.wikipedia.org/w/index.php?title=मानवरहितविमानम्&oldid=465926" इत्यस्माद् प्रतिप्राप्तम्