सामग्री पर जाएँ

इरावती कर्वे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इरावती कर्वे
जन्म १९०५
बर्मा
मृत्युः 11 August 1970
निवासः पुणे, भारतम्
देशीयता भारतम् Edit this on Wikidata
शिक्षणस्य स्थितिः मुंबई विश्वविद्यालयम्, Huzurpaga, Fergusson College Edit this on Wikidata
वृत्तिः अन्त्रपोलोजि
अपत्यानि Gauri Deshpande Edit this on Wikidata


इरावती कर्वे (१९०५-१९७०) भारतीया समाजशास्त्रज्ञा, मानवशास्त्रज्ञा, शिक्षणतज्ज्ञा, लेखिका च आसीत् ।

बाल्यं शिक्षणञ्च

[सम्पादयतु]

इरावती १९०५ तमे वर्षे धनिके चित्पावन-ब्राह्मणकुटुम्बे जन्म प्राप्तवती । तस्याः पिता गणेश हरि कर्माकर् । सः बर्मा काटन्-संस्थायाम् उद्योगी आसीत् । बर्मादेशस्य इरवड्डी-नद्याः स्मरणरूपेण सा इरावती इति नामाङ्किता । सप्तमे वयसि सा पुणेनगरस्थे बालिकासवसतिकविद्यालये योजिता । १९२६ तमे वर्षे सा फर्गुसन्-महाविद्यालयतः पदवीधरा जाता । ततः सा बाम्बे-विश्वविद्यालयतः छात्रवृत्तिं प्राप्य समाजशास्त्रस्य अध्ययनं जि एस् घुर्येवर्यस्य मार्गदर्शने अकरोत् । १९२८ तमे वर्षे स्नातकोत्तरपदवीधरा जाता । तदवसरे तया स्वस्य चित्पावनब्राह्मणकुलविषये अध्ययनं कृत्वा शोधप्रबन्धः प्रस्तुतः । इरावत्याः विवाहः दिनकर् धोण्डो कार्वे नामकेन रसायनशास्त्रशिक्षकेन सह अभवत्। किन्तु अस्मिन् विवाहे दिनकरस्य पितुः पूर्णानुमोदनं न आसीत् । उच्चशिक्षणार्थं इरावती जेर्मनीं प्रेषणीया इत्येषः दिनकरस्य निर्णयः दिनकरस्य पित्रे न अरोचत । तथापि जीवराजमेह्ता इत्येषः भारतीयराष्ट्रियकाङ्ग्रेस्-पक्षस्य सदस्यः धनं ऋणरूपेण दत्तवान् । एतेन सहाय्येन इरावती जेर्मनीं गत्वा कैसेर्विल्हेम्इन्स्टिटुट् मध्ये मानवजानिशास्त्रम् अधीय आनुवंशिकता एवं वंशावली विषये संशोधनं कृत्वा पि हेच् डी प्राप्तवती । अनन्तरं भारतं प्रत्यागम्य, दिनकरमहोदयेन सह अवसत् । तयोः जीवनं अनिरूढः तद्कालसामाजिकनियमरहितः एव आसीत् । दिनकरः नास्तिकः । तथापि इरावती पण्डरापुरविठोभादेवालयं सम्प्रदायानुसारं गच्छति स्म ।

वृत्तिजीवनम्

[सम्पादयतु]
इरावती कर्वे की प्रतिमा, बिरला औद्योगिक एवं प्रौद्योगिकी संग्रहालय, कोलकाता, पश्चिम बंगाल, भारत

इरावती कार्वे १९३१ तमवर्षतः १९३६ तमवर्षपर्यन्तं बाम्बे एस् एम् डी टी महिलाविश्वविद्यालये स्नातकोत्तरविभागे प्राध्यापिकारूपेण कार्यम् अकरोत् । अनन्तरं स्नातकोत्तरकक्ष्यासु पाठयति स्म । १९३९ तमे वर्षे पूणे नगरे डेक्कन्महाविद्यालये प्राध्यापिकारूपेण सेवानिवर्तनपर्यन्तम् अपाठयत् । नन्दिनी सुन्दर नाम चरितलेखिकायाः अभिप्रायानुसारम् इरावती प्रथमा भरतीयमहिलामानवजानिशास्त्रज्ञा । पूना (तद्कालीननाम) विश्वविद्यालये मानवजानिशास्त्रविभागं सा स्थापितवती आसीत् । एवं विभागस्य प्रथमाध्यक्षका भूत्वा अनेकाः वर्षाः सेवां कृतवति । १९४७ तमे वर्षे नवदेहेलीनगरे राष्ट्रियविज्ञानकाङ्ग्रेस्-संस्थया योजितस्य मानवजनिशास्त्रविभागस्य सम्मेलनस्य अध्यक्षा आसीत् । सा मराठी-आङ्लभाषयोः लिखति स्म ।

साहित्यकृतयः

[सम्पादयतु]

तस्याः रचनेषु प्रधानानि

  • किन्षिप् आर्गनैसेषन् इन् इन्डिया (आङ्ग्लम्)
  • हिन्दु सोसैटि-अन् इन्टर्प्रेटेषन् (आङ्ग्लम्)
  • महाराष्ट्-लेन्ड् अन्ड् पीपिल् (आङ्लम्)
  • युगन्ता ( मराठी एवं आङ्ल) । (मराठीग्रन्थेन १९६७ तमस्य वर्षस्य श्रेष्ठमराठीग्रन्थः इति साहित्यपुरस्कारः लब्ध:)
  • परिपूर्ति (मराठी)
  • भोवारा (मराठी)
  • अमाचि समस्कृति (मराठी)
  • सम्स्कृति (मराठी)
  • गङ्गाजल् (मराठी)
"https://sa.wikipedia.org/w/index.php?title=इरावती_कर्वे&oldid=490971" इत्यस्माद् प्रतिप्राप्तम्