मुनिः
मुनिशब्दविचारः
[सम्पादयतु]मन्यन्ते = वेदशास्त्रादितत्त्वम् अवगच्छन्ति ये ते मुनयः = साधकबाधक-प्रमाणोपन्यासरूपयुक्तिभिः श्रुत्याद्यर्थावधारणरूपमननशीलाः ।
प्रक्रिया
[सम्पादयतु]मन् धातोः मनोरुच्चोपधायाः[१] इत्युणादिसूत्रेण कर्तरि इन्प्रत्यये उपधाभूतस्य अकारस्य उकारादेशे च मुनिः इति रूपं सिद्ध्यति ।
ग्रन्थेषु उक्तिः
[सम्पादयतु]दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥[२]
शाके पत्रे फले मूले वनवासे रतिः सदा ।
नियतोऽहरहः श्राद्धे स विप्रो मुनिरुच्यते ॥ [३]
मौनान्न मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥[४]
अन्तर्बहिश्च मननात्कुरुते कर्म नित्यशः ।
मौनी शश्वद्वदेत्काले यो वै स मुनिरुच्यते ॥ [५]
आकृष्टफलमूलादी वनवासरतिस्सदा ।
कुरुतेऽहरहः श्राद्धमृषिर्विप्र स उच्यते ॥[६]
वेदानुवचनेनापि यज्ञेन सकलेन च ।
दानेन तपसा देवान् तथैवानशनेन च ।
वेत्तुमिच्छति यो विद्वान् स मुनिर्नेतरो जनः ॥ [७]
तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकत्वेनैतमेव विदित्वा मुनिर्भवति । [८]