सम्भाषणम्:जे आर् डि टाटा

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नाम्नः विषये[सम्पादयतु]

NehalDaveND भवता पृष्ठमिदं चालितमस्ति जहाङ्गीर रतनजी ताता इति नाम्ना । कारणञ्चोक्तं प्रादेशिकनाम तथा च शुद्ध नाम इति । परन्तु नैतच्छक्यं प्रसिद्धिकारणात् । पूर्णनामविषये प्रथमनियमः एव बलवत्तमः । नियमानां उत्तोरोत्तरबलह्रासः एव सामान्यजनबोध्यः ।

  • अस्योत्कृष्टोदाहरणम्- ए पि जे अब्दुल् कलाम् । एतस्य नाम्नः इदमेव प्रसिद्धरूपम् ।
  • प्रादेशिकभाषानुसरणीया चेत्तस्य नाम जहाङ्गीर रतनजी दादाभाई ताता भवेत् । तातेति उच्चारणं लेखनं वा विरलं वर्तते ।

उपर्युक्तेषु विषयेषु ममाशयः सुस्पष्टः अस्ति यदस्य नाम जे.आर्.डि.टाटा एव ग्रहणयोग्यं यथा आङ्ग्लादयः ।-Sayant Mahato (चर्चा) ०४:२६, २० मार्च २०१५ (UTC)

@Sayant Mahato: भवता उक्तम् उचितं परन्तु ए पि जे अब्दुल कलाम इतिनाम्नः दैर्घ्यत्वात् तत्र तत् नाम । तथा च आर् के लक्ष्मण् इत्यत्र प्रसिद्धनाम इति उचितम् । परन्तु रतन ताता इति प्रसिद्धम् अस्ति उत जहाँगीर रतनजी ताता इति । प्रमाणम् अस्ति यत्, अत्र उत्तरप्रदेशे तस्य नाम्ना एतस्य ग्रामस्य नाम अपि विद्यते जहाँगीरपुरम् इति । यतो हि त्रयः ताता सन्ति अतः भ्रमः भवति । 1. जहाँगीर रतन ताता 2. नवल रतन ताता 3. न्योल रतन ताता इति । ताता इत्यस्य आङ्ग्ले TATA अशुद्धाः आङ्ग्लाः टाटा इति वदन्ति स्म । यथा रवीन्द्रनाथ टागोर परन्तु योग्यम् अस्ति रवीन्द्रनाथ ठाकुर इति । तथैवात्र अस्ति । प्रसिद्धम् अशुद्धम् अस्ति इतिकारणात् अशुद्धस्य उपयोगं कर्तुं न शक्यते । अन्यथा बोम्बे, केलकाटा इत्यादयः अधुनापि प्रचलने सन्ति । तत्रापि पूर्ववत् परिवर्तनं करणीयं भवति । ममाशयः सुस्पष्टः अस्ति इति चिन्तयामि । अस्तु । ॐNehalDaveND ०४:४६, २० मार्च २०१५ (UTC)
जे आर् डि टाटा इत्येव भवेत् यतः प्रसिद्धमिति (अधिकेषु विकिजालस्थानेषु विद्यते ) मम अभिप्रायः । ताता इत्येतत् न श्रुतम् । प्रदेशविशेषे इदं श्रूयते चेत् पुनर्निर्देशनपुटं भवितुमर्हति । एतादृशानां लेखानां चालनात् प्राक् अवश्यम् अन्येषाम् अभिप्रायः प्राप्तव्यः । - Shubha (चर्चा) ०७:३४, २१ मार्च २०१५ (UTC)