विकिपीडिया:लघुसार्वसङ्केतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लघुसार्वसङ्केतः शीर्षकस्याधः उपकरणाग्ररूपेण दरीदृश्यते । तस्मिन् सारकं (cursor) नयामः चेत्, पृष्ठस्य लघुसार्वसङ्केतः (URL) प्राप्यते । सः लघुसार्वसङ्केतः विकिपीडिया-तः बहिः विकिपीडिया-जालस्य पृष्ठानि सारल्येन परिसन्धितुं शक्नोति । प्रत्येकविकिपीडिया-पृष्ठेन सह एकः लघुसार्वसङ्केतः सँल्लग्नः अस्ति । विशिष्टपृष्ठेभ्यः लघुसार्वसङ्केतः न भवति ।

पूर्वसूचना  : लघुसार्वसङ्केतः पृष्ठस्य मूलसार्वसङ्केतेन सह सम्बन्धितः अस्ति । सः सार्वसङ्केतः स्वयं पृष्ठत्वेन न परिगण्यते । अर्थात् यद्यपि पृष्ठं पुनिर्निदिष्टम् अकृत्वैव शीर्षकपरिवर्तनस्य प्रक्रियां कुर्मः अथवा पृष्ठम् अपाकुर्मः, तथापि लघुसार्वसङ्केतः पुरातनं पृष्ठं प्रति एव नयति ।

प्रयोगः[सम्पादयतु]

विकिपीडिया-तः बहिः लघुसार्वसङ्केतस्य उपयोगं कर्तुं केवलं लघुसार्वसङ्केतस्य प्रतिकृतिं करोतु ।

विकिपीडिया-जालस्य पृष्ठेन सह उत अन्यविकिप्रकल्पेन सह अनुबन्धं स्थापयितुम् एतस्य लघुसार्वसङ्केतस्य उपयोगं कर्तुं शक्नुमः ।

उदाहरणम् :

[//sa.wikipedia.org/s/nvb मुखपृष्ठम्]

इत्यनेन एतत् द्रष्टुं शक्नुमः...

मुखपृष्ठ