सदस्यः:Anisha badri28/प्रयोगपृष्ठम्
दिखावट
उद्योगपर्व
अथ परेद्यवि सर्वैर्बन्धुभिरमलङ्क्रुते वैवाहिके विराटस्य सदसि क्रुष्ण: कथान्ते व्याजहार -- ' विदितमेव सर्वेषां वो यथायं युधिष्ठिरछलेन राज्याट् भ्र्ंशितोऽप्यनृतभीरुतया बहून्क्लेशांस्तितिक्षमाण: प्रतिग्नापारावारं तीर्णवानिति । एवं गते कथमयं यथापुरं स्वं राज्यं लभताम् । न खलु परमतमविग्न्याय शक्यमुपायोऽध्यवसातुम् । तन्मन्ये पूर्वं दूतेन दुर्योधनस्य हृदयं ग्न्यातव्य ' मिति। तद्वाक्पान्ते बलदेव: प्रोवाच -- ' श्रुतं भवभ्दि: कृष्णास्य वचनम्। दूतमुखेन युधिष्ठिरो धार्तराष्ट्रं स्वं भागं याचताम् । स्वदुर्नयेन नाशितं बलवताक्रान्तमर्थं प्रतीच्छोरस्य नास्त्युपायान्तरम् ' इति अर्धोक्त एवोत्थित: सात्यकिर्युयुधानस्तं विगर्हयन्नाह -- ' अयि मुसलायुध! शस्त्रमिव ते मतिर्निशिता यस्य तवाजातशत्रुरशिष्ट:, कुरवो बलीयांसो, धार्तराष्ट्रो याञ्ञयोपस्थातव्य: । खलु वा बहूक्त्वा । मम मार्गण एव मार्गणीभूय दुर्द्यूतकारिणस्तस्य हृदयं ग्न्यास्यति न युधिष्ठिर: ' इति । द्रुपदस्त्वब्रवीत् -- ' युक्तमुक्तं सात्यकीना । गर्दभो मृदुमिव साम्रोपस्थितमशक्तमेव मन्येत स दुरात्मा । अत: प्रथमं सेनासङ्रहोद्योगं कृत्वा पश्चात्तत्र दूत: प्रेषणीय: ' इति । तद्वाक्यमङीकुर्वन्भगवान् ' यदि तुर्य एवोपाय: साधनं पर्यवस्यति तदा सर्वेषामाह्वानानन्तरमस्मभ्यं निवेदयत । उभयो: सम्बन्धिनां क्कचित्पक्षपातकौलीनं मा भूत् ' इत्युक्त्वा सपरिवार: स्वां पुरीमवाप ।
तत: पाञ्चाल: साह्याय क्षक्रियान्वरीतुं तत्र तत्र दूतानादिश्य पुरोहितमाह -- ' विप्रर्षे! कुरुसदो गत्वा तथा व्याहर यथा वीराणामुत्साहो भज्येत । ततस्तत्समाधानव्यग्रे धार्तराष्ट्रे लघु सेनां सङ्रहीष्याम: । इदमस्माकं सद्य:फलम् । दूतकर्म तु फलतु न वा । त्वं विप्रो वृद्वश्चासि । अतो नि:शङ्कमनुष्ठीयताम् ' इति प्रस्थापयामास । दुर्योधनस्तु चारैस्तत्सर्वं विदन्, स्वयममि सेनासङ्रहोद्यमं कृत्वा कृष्णं स्वयं वरीतुकामो द्वारकामेत्य शयानस्य भगवत: प्रबोधं प्रतिपालयंस्तच्छिरोदेशे कस्मिंश्चिदासने आस्त । अर्जुनोऽपि तनैवार्थेन तदा तत्रैत्य स्वपतस्तस्य देवस्य पादान्तिके तदुपधानवदतिष्ठत् । अथोत्थितो भगवान्पूर्वमर्जनं पश्चाद् दुर्योधनं च पश्यन्द्वयो: समागमार्थं सम्पृच्छमानो दुर्योधनमाह -- ' कुरुपते! युवां द्वावप्येककार्यावागतौ ।