भगदत्त

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्राग्ज्योतिषपुरस्य (अधुना आसामसंज्ञकस्य) अयं राजा।पूर्वं श्रीकृष्णेन नरकासुराय एकम् अमोघम् अस्त्रं दत्तम्।परम्परया तदस्त्रं भगदत्तेन लब्धम्।भगदत्तस्य समीपे एक: प्रचण्ड: प्रबलतर: सुप्रतीकनामा युद्धगज: आसीत्।तद् अमोघम् अस्त्रं तथा अयं सुप्रतीक: गजराज: इति एताभ्यां भगदत्त: अजेय: इव आसीत्।श्रीकृष्णेन सह बद्धवैर: भगदत्त: भारतीययुद्धे कौरवपक्षे आसीत्। तस्य सुप्रतीकेन पाण्डवपक्षे हाहाकार: जनित:।रणे अर्जुन: यदा अभिमुखम् आगत:, तदा भगदत्तेन तद् अमोघम् अस्त्रं क्षिप्तम्।अर्जुनसखा श्रीकृष्ण: दक्ष: आसीत्।तेन तदस्त्रम् उरसि धृतम्।मूलत: श्रीकृष्णस्य एव तदस्त्रम्।क्षणेन वैजयन्तीमालारूपेण परिणतम्।तदा श्रीकृष्ण: अर्जुनाय भगदत्तवधाय काञ्चिद् युक्तिम् उक्तवान्।तया युक्त्या अर्जुन: भगदत्तस्य वधं साधितवान्। ‎

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भगदत्त&oldid=409508" इत्यस्माद् प्रतिप्राप्तम्