नवकलेबर २०१५

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नवकलेबर
नवकलेबर २०१५ चिह्नम्
प्रारम्भः 29 March 2015
समाप्तिः 17 July 2015
आवृत्तिः 19/18/12 years
स्थानम् Jagannath Temple, Puri, Odisha
उद्घाटनम् 1733
आम्भकः Gajapati Ramachandra Deba (Abhinav Indradyumna)
पूर्वोत्सवः 1996
अन्वोत्सवः 2035
प्रतिभागी Pilgrims
उपस्थितिः 5 million (approx.)
शैली Religious
सहायकाः Gajapati Maharaj Puri
जालस्थानम् nabakalebara.gov.in

नवकलेबरः भगवतः जगन्नाथस्य प्राचीनतमः उत्सवः वर्तते। अस्मिन्नुत्सवे भगवतां जगन्नाथ-बलभद्र-सुभद्रा-सुदर्शनानां प्राक्तनमूर्तीनां स्थाने नूतनमूर्तयः प्रतिष्ठाप्यन्ते। नवः कलेबरः = नवकलेवरः , अर्थात् जगन्नाथ-बलभद्र-सुभद्रा-सुदर्शनाः प्रक्तनशरीरं त्यक्त्वा नवशरीरं धरन्ति।

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।। - श्रीमद्बगवद्गीता - द्वितीयाध्यायः ‌

परम्परानुसारं यस्मिन् वर्षे अधिकाषाढमसः संभवति तदा नवकलेवरोत्सवः परिपाल्यते। एतत् प्रायः ८ वर्षेषु अथवा ११ वर्षेषु अथवा १९ वर्षेषु संभवति। देवतानां मूर्तयः विशेषनिम्बवृक्षस्य दारुभिः क्रियन्ते। अतः भगवान् जगनानाथः 'दारुब्रह्म' इत्यपि कथ्यते। चैत्रमासे अस्योत्सवस्य आरम्भः भवति। इतः पूर्वम् अयमुत्सवः १७३३, १७४४, १७५२, १७७१, १७९०, १८०९, १८२८, १८३६, १८५५, १८७४, १८९३, १९१२, १९३१, १९५०, १९६९, १९७७, १९९६ वर्षेषु अभवत्। सम्प्रति २०१५ वर्षे अयमुत्सवः परिपाल्यते। यस्मिन् ३० लक्षाधिकाः भक्ताः भगवतो जगन्नाथस्य दर्शनेन चरितार्थाः भवन्तीति आशास्महे।

२०१५ वर्षे नवकलेबरोत्सवस्य कार्यक्रमाः[सम्पादयतु]

  • २९ मार्च २०१५ , रविवासर: - बनजाग यात्रा।
  • ३० मार्च २०१५, सोमवासर: - देऊलीमठं प्रति यात्रा।
  • २ अप्रील २०१५, गुरुवासर: - देऊलीमठे निवासः।
  • ३ अप्रील २०१५, शुक्रवासर: - मंगलामंदिरे पूजा।
  • ४ अप्रीलतः मेपर्यन्तम् - दारू-अन्वेषणम्
  • २ जुन २०१५, मंगलवासर: - देबस्नान पूर्णिमा ।
  • ५ जून २०१५, शुक्रवासरः - प्रतिमानां निर्माणम्।
  • १५ जून २०१५, सोमवासरः - ब्रह्मपरिवर्तनम्।
  • १७ जुलै २०१५, शुक्रवासरः - नवयौवनदर्शनम् ।

* १८ जुलै २०१५, शनिवासरः - रथयात्रा ।

  • २२ जुलै २०१५, बुधवासरः - हीरपञ्चमी ।
  • २६ जुलै २०१५, रविवासरः - बाहुडायात्रा ।
  • २७ जुलै २०१५, सोमवासरः - सोनाबेश ।
  • २८ जुलै २०१५, मंगलवासरः - आधारनीतिः ।
  • ३० जुलै २०१५, गुरुवासरः - नीलाद्रिभोजः ।

अग्रिमः नवकलेबरोत्सवः २०३५ वर्षे परिपालयिष्यते।

"https://sa.wikipedia.org/w/index.php?title=नवकलेबर_२०१५&oldid=478984" इत्यस्माद् प्रतिप्राप्तम्