सदस्यः:Krishnaprasad Nirola/प्रयोगपृष्ठम्/1
कार्पण्यदोषोपहतस्वभावः ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः कर्तव्याकर्तव्ययोः निर्णये स्वम् असमर्थं ज्ञात्वा व्याकुलमनसा भगवन्तं प्रार्थयते । पूर्वस्मिन् श्लोके युद्धोपरामनिर्णयं प्रति सन्देहं प्रदर्श्य अत्र भगवन्तं मार्गदर्शनाय अर्जुनः निवेदयति । सः प्रार्थयति यत्, कापुरुषतारूपिदोषयुक्तः, धर्मविषये मोहितान्तःकरणयुक्तः चाहं भवन्तं पृच्छामि यत्, यत्किमपि कल्याणकरम् अस्ति, तत् कथयतु । अहं भवतः शिष्यः अस्मि । भवतः शरणम् आगताय मह्यम् उपदेशं ददातु इति ।
भावार्थः
[सम्पादयतु]'कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः' – अत्र 'चेतस्'-शब्दः बुद्धिवाचकः अस्ति । यद्यपि युद्धोपरामस्य निर्णयं पूर्णतया योग्यः इति अर्जुनस्य मतं नासीत्, तथापि सः पापाद् रक्षणाय एतादृशम् उपायं चिन्तयन् आसीत् । अतः अत्र युद्धोपरामस्य निर्णयः तस्य कृते गुणः आसीत्, न तु कापुरुषतारूपः दोषः । परन्तु यदा भगवान् तस्य वचनानि हृदयदौबल्यस्य फलम् इति अवदत्, तदा अर्जुनः अपि स्वनिर्णयं प्रति सन्दिग्धः अभवत् । तस्य मनसि "युद्धोपरामस्य निर्णयः अयोग्यः" अस्ति इति विचारः समुद्भूतः । तस्य विचारे कापुरुषता एव अस्ति, या मे स्वभावानुगुणा न; किञ्च मम क्षात्रधर्मे दीनता, पलायनं च निषिद्धे स्तः [१] । कापुरुषतारूपं दोषं स्वस्मिन् स्वीकृत्य अर्जुनः श्रीकृष्णं कथयति यत्, एकत्र कापुरुषतारूपदोषेण क्षात्रस्वभावः माम् आवृत्तः, अपरत्र स्वबुद्ध्या धर्माधर्मयोः निर्णयं कर्तुम् अपि अहम् असमर्थः अस्मि इति ।
तृतीये श्लोके श्रीकृष्णः अर्जुनाय कापुरुषतां त्यक्त्वा युद्धं कर्तुम् आज्ञाम् अयच्छत् । ततः एतादृशस्य संशयस्य स्थानमेव न भवेत् । परन्तु अर्जुनस्य सम्मुखं परिवारस्य नाशः, पूज्यानां संहारः च पापकर्म आसीत् । अपरत्र युद्धं क्षात्रधर्म । उभयतः आपतितेन सङ्कटेन अर्जुनः धर्मसङ्कटम् अन्वभवत् । अतः सः स्वस्य कर्तव्यस्य, धर्मस्य च निर्णयं कथं करोमि ? इति भगवन्तं पृच्छति ।
'यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे' – अध्यायस्यास्य द्वितीये श्लोके भगवान् अर्जुनं कापुरुषम् अवदत् । तव आचरणम् 'अनार्यजुष्टम्' अस्ति इत्यपि अवदत् । आर्याः श्रेष्ठाः वा यस्मिन् स्वकल्याणं भवति, तदेव कार्यं कुर्वन्ति । एवं श्रुत्वा अर्जुनस्य मनसि श्रेष्ठपुरुषानुकणस्य भावः उद्भूतः । स्वकल्याणेच्छायां जागृतायां सत्यां सः भगवन्तं स्वकल्याणस्य निश्चितं मार्गं पृच्छति । अर्जुनस्य हृदये विषादे सति अत्र सः स्वकल्याणस्य मार्गं पृच्छति इत्यनेन सिद्ध्यति यत्, मनुष्यः यस्यां स्थित्याम् अस्ति, तस्यां स्थित्यां सन्तोषेण तिष्ठति चेत्, सः स्ववास्तविकोद्देशं प्रति कदापि जागृतः न भवति इति । वास्तविकोद्देशस्य पूर्तिः तदैव भवति, यदा मनुष्यः स्वस्य वर्तमानस्थित्या असन्तुष्टः तस्यां स्थित्यां स्थातुं न काङ्क्षेत् ।
'शिष्यस्तेऽहम्' – स्वकल्याणस्य चर्चया अर्जुनस्य मनसि विचारः उद्भूतः यत्, कल्याणस्य चर्चा तु गुरोः सकाशम् एव भवति । सारथिणा सह एतादृशेषु विषयेषु चर्चा न भवति । एवं श्रीकृष्णं प्रति रथित्वस्य भावः तस्य मनसि नष्यति । "हे अच्युत ! रथं मे उभयोः सेनयोः मध्ये स्थापय" इति पुरा दत्ताज्ञः अर्जुनः अधुना स्वकल्याणस्य उपदेशाय शिष्यो भूत्वा भगवन्तं निवेदयति ।
'शाधि मां त्वां प्रपन्नम्' – गुरुः तु ज्ञानं दास्यति, मार्गञ्च प्रदर्शयिष्यति, परन्तु मार्गदर्शनानुगुणं स्वकल्याणं तु शिष्येन साधनीयं भवति । अर्जुनः स्वयं स्वकल्याणस्य दायित्वं स्वीकर्तुं नेच्छति । यतः तावता तस्य कार्यसिद्धिः न भवेत् । अतः सः स्वकल्याणसिद्धेः दायित्वम् अपि गुरवे अयच्छत् । यदि अहं स्वकल्याणस्य दायित्वं गुरवे ददामि, तर्हि गुरुः स्वयं मे कल्याणं साधयिष्यति । अतः अर्जुनः 'अहं भवतः शरणम् आगतः, मह्यम् उपदेशं ददातु' इति कथयति ।
अत्र अर्जुनः 'त्वां प्रपन्नम्' इत्यस्य पदस्य उपयोगं करोति । अनेन पदेन अर्जुनः पूर्णतया श्रीकृष्णस्य शरणम् अङ्गीकर्तुं वदति, परन्तु इतोऽपि सः पूर्णतया श्रीकृष्णस्य शरणं न गतः । किञ्च सः 'शाधि माम्' इत्यस्य पदस्य उपयोगम् अपि करोति । अर्थात् शरणस्वीकरोत्तरं "मह्यम् उपदेशं ददातु" इत्यस्य कृते अवरसः एव नावशिष्यते । यतः शरणे स्वीकृते शिष्यस्य व्यक्तिगतं किमपि कर्तव्यं नावशिष्यते । अस्याध्यायस्य नवमे श्लोकेऽपि अर्जुनः 'न योत्स्ये' इत्यस्य पदस्य उपयोगं कृत्वा पूर्णतया शरणागतः न इति प्रकटयति । अत्र शरणदातृशरणार्थ्योः मध्ये शरणदाता यत् कारयेत्, तत् शरणार्थिना करणीयम् इति निश्चितं भवति । परन्तु अर्जुनः एतत् न ज्ञातवान् । अतः अग्रे श्रीकृष्णः 'मामेकं शरणं व्रज' इति वदति [२] । ततः अर्जुनः 'करिष्ये वचनं तव' इत्युक्त्वा पूर्णतया शरणागतिं स्वीकरोति [३] ।
श्लोकेऽस्मिन् अर्जुनः यद् अवद्त्, तस्य चतुर्धा विभागः भवति ।
- कार्पण्यदोषो... धर्मसम्मूढचेताः
- यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
- शिष्यस्तेऽहम्
- शाधि मां त्वां प्रपन्नम्
प्रप्रथमम् अर्जुनः धर्म पृच्छति, द्वितीयवारं कल्याणस्य प्रार्थनां करोति, तृतीये शिष्यत्वं स्वीकरोति, अन्ते च शरणागतो भवति । एतेषु विचारे सति ज्ञायते यत्, मनुष्यः यं प्रश्नं करोति, सः उत्तरदाने स्वतन्त्रः भवति । मनुष्यः यस्मै प्रार्थनां करोति, तस्य (यं प्रार्थथ्यते, तस्य कृते) कृते उत्तरदानं दायित्वं भवति । शिष्ये जाते सति गुरौ शिष्यस्य कल्याणस्य विशेषदायित्वं भवति । शरणागतस्य उद्धाराय तु शरणदात्रा सम्मूर्णोद्योगः करणीयः भवति इति ।