सदस्यः:Nivedita2015/प्रयोगपृष्ठम्/3
दिखावट
Nivedita2015/प्रयोगपृष्ठम्/3 | |
---|---|
श्लोकसङ्ख्या | १ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | - |
अग्रिमश्लोकः | मूढ जहीहि धनागमतृष्णाम् |
भज गोविन्दम् इत्यनेन श्लोकेन भगवान् आदिशङ्कराचार्यः गोविन्दभजनं कर्तुं कथयति । व्यर्थकार्यं त्यक्त्वा गोविन्दस्य स्मरणमेव योगम् इति वदति ।
श्लोकः
[सम्पादयतु]- भज गोविन्दं भज गोविन्दं
- गोविन्दं भज मूढमते ।
- संप्राप्ते सन्निहिते काले
- नहि नहि रक्षति डुकृञ्करणे ।।१।।
पदच्छेदः
[सम्पादयतु]भज, गोविन्दम्, भज, गोविन्दम्, गोविन्दम्, भज, मूढमते, संप्राप्ते, सन्निहिते, काले, न, हि, न, हि, रक्षति, डुकृञ्करणे ।
अन्वयः
[सम्पादयतु]मूढमते । (त्वं) गोविन्दं भज । (त्वं) गोविन्दं भज । (त्वं) गोविन्दं भज । काले सन्निहिते संप्राप्ते (सति) “डुकृञ्करणे” नहि नहि रक्षति ।
अर्थः
[सम्पादयतु]हे मन्दबुद्धे । त्वं गोविन्दं निरन्तरं भज । मरणकाले अत्यन्तं सन्निहिते सति व्याकरणादीतरशास्त्राध्ययनं संसारमुक्त्ये न कल्पते । अतः इदानीं तव गोविन्दभजनमेव कर्तव्यम् ।
पदपरिचयः
[सम्पादयतु]- सम्बोधनपदम् = मूढमते [ इ. पुं. संप्र. एक. ]
- क्रियापदम् = भज [ भज “भज सेवायाम्” पर. लोट्. मपु. एक. ]
- कर्मपदम् = गोविन्दम् [ अ. पुं. द्वि. एक. ]
- कर्तृपदम् = (त्वम्)
- क्रियापदम् = रक्षति [ रक्ष् “रक्ष पालने” पर. लट्. प्रपु. एक. ]
- क्रियाविशेषणम् = न [ अव्ययम् ]
- क्रियाविशेषणम् = हि [ अव्ययम् ]
- कर्मपदम् = “डुकृञ्करणे” [ एतद् पदम् अस्मिन् श्लोके संज्ञा रूपेण प्रथमा विभिक्त्यार्थे एक वचने उपयुङ्क्ते । एतद् पणिनेः धातुपाठे एकं सूत्रम् । धातोः औपदेशिक रूपम् सूचयति । कृ धातुः करणकार्ये भवति इति एतस्य सूत्रस्य अर्थः ]
- कालवाचक-वाक्यांशः
- ज्ञापक-क्रियापदम् = संप्राप्ते [ अ. पुं. स. एक. ]
- क्रिया-आश्रय-कर्तृपदम् = काले [ अ. पुं. स. एक. ]
- कर्तृविशेषणम् =सन्निहिते [ अ. पुं. स. एक. ]
- सतिसप्तमी-पदम् = (सति)
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- गोविन्दं भज = गोविन्दम् + भज – अनुस्वारसन्धिः ।
समासः
[सम्पादयतु]- मूढमते = मूढा मतिः यस्य सः मूढमतिः - समानाधिकरणबहुव्रीहिः । सम्बोधनरूपम् ।
- गोविन्दम् = गोभिः विद्यते (उपनिशद्वाक्यैः ज्ञायते) इति गोविन्दः - उपपदसामासः । तम् ।
कृदन्तः
[सम्पादयतु]- संप्राप्ते – सम् + प्र + आप् "आप्लृ व्याप्तौ" + क्त प्रत्ययः (कर्मणि) - संप्राप्तः । तस्मिन् ।
- सन्निहिते – सम् + नि + हि “हि गतौ वृद्धौ च” + क्त प्रत्ययः (कर्मणि) - सन्निहितः । तस्मिन् ।
- गोविन्दम् = गो + विन्द + श प्रत्ययः (कर्तरि) । गाः विन्दति इति गोविन्दः । धेनूः प्राप्नोति इत्यर्थः । तम् ।
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कन्तुः
[सम्पादयतु]सन्दर्भः
[सम्पादयतु]can't use in sandboxभज गोविन्दम्]]