सदस्यः:Sayant Mahato/विकिविषयनीतिः/मूलसंसोधनविरहता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मूलभूतसंशोधनविरहता इत्येषा नीतिः प्रमुखेषु त्रिषु विषयनीतिषु अन्यतमा । अन्ये नीती भवतः ताटस्थ्यदृष्टिकोनः प्रमाणीकरणार्हता च । लेखे लेखनयोग्यस्य विषयस्य प्रकारः गुणस्तरः च कः स्यादित्येषः अंशः अत्र निरूप्यते । एताः नीतयः परस्परं सामरस्येन वर्तन्ते इत्यतः ताः पार्थक्येन न निरूपणीयाः । सम्पादकाः एतान् त्रीन् अपि अंशान् समीचीनतया अवगच्छेयुः ।

विकिपीडियालेखाः मूलभूतसंशोधनविरहताः स्युः[सम्पादयतु]

विकिपीडियालेखदृष्ट्या ’मूलभूतसंशोधनविरहता’ इत्यस्य पदप्रयोगः एतेषु सन्दर्भेषु क्रियते यत्र लेखे उल्लिखिताः अंशाः विचाराः अभिप्रायाः वा विश्वसनीयेन प्रकाशितोल्लेखेन प्रमाणीकर्तुं न शक्याः भवन्ति । अतः भवदीयः लेखः मूलभूतसंशोधनविरहतः इति दर्शयितुं विषयेन साक्षात् सम्बद्धः प्रमाणीभूतः पूर्वप्रकाशितः स्रोतांशः स्यात् । तच्च प्रमाणं लेखे उपस्थापितम् अंशं सर्वथा दृढीकुर्यात् ।

लेखे यः अंशः प्रश्नार्हः भवति सः अंशः विश्वसनीयैः उल्लेखैः समायोजनीयाः । यस्य अंशस्य विषये विश्वसनीयः उल्लेखः समायोजयितुम् अशक्यः सः मूलसंशोधनत्वेन परिगण्यते । भवता कृतं सम्पादनं न मूलसंशोधनम् इति ज्ञापनं विश्वसनीयोल्लेखस्य समायोजनेन मात्रं शक्यते । विश्वसनीयस्य उल्लेखस्य अपि उपयोगः यदि अनौचित्ये सन्दर्भे कृतः चेत्, अथवा अनभिप्रेतस्य निर्णयस्य प्रतिपादनाय उपयुक्तः चेत् तदपि मूलसंशोधनत्वेन एव परिगण्यते । सामान्यतः विश्वासयोग्याः उल्लेखाः नाम –

  1. तज्ञगणेन परिशीलिता संशोधनपत्रिका
  2. विश्वविद्यालयस्य मुद्रणालयतः प्रकाशिताः ग्रन्थाः
  3. विश्वविद्यालयस्तरीयानि पाठ्यपुस्तकानि
  4. प्रतिष्ठितमुद्रणालयतः प्रकाशिताः पत्रिकाः, संशोधनपत्रिकाः, ग्रन्थाः च
  5. प्रमुखाः दिनपत्रिकाः


लेखे विद्यमानः अंशः योजिते विश्वसनीयोल्लेखे परिशीलनयोग्यः स्यात् । लेखे लिखितः अंशः अस्पष्टपठ्यम् अनुसृत्य लिखितः न स्यात् । यस्य वाक्यस्य भावं विभिन्नरीत्या निरूपयितुं शक्येत तस्य आधारेण लेखः लिखितः न स्यात् । दीर्घचर्चायाः सारांशः मूलोल्लेखस्य निर्णयस्य अनुगुणमेव स्यात् ।