सामग्री पर जाएँ

पी टी नरसिंहाचार्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
P. T. Narasimhachar (Pu Ti Na)
जननम् (१९०५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१७)१७ १९०५
Melukote, Nagamangala taluk, Mandya district, Karnataka
मरणम् २३ १९९८(१९९८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२३) (आयुः ९३)
Bangalore, Karnataka
काव्यनाम Pu Ti Na (ಪು ತಿ ನ)
वृत्तिः Writer, poet
राष्ट्रीयता India
प्रकारः Fiction
साहित्यकान्दोलनम् Kannada: Navodaya


पु.ति.नरसिंहाचार्यः(P.T.Narasimhacharya) (१९०५-१९९८) कर्णाटकस्य प्रसिद्धः कविः। कन्नडसाहित्यक्षेत्रे एतस्य महत् योगदानम् अस्ति। एतस्य काव्य वस्तु विशेषेण सर्वान् आकर्षयति।

जीवनम्

[सम्पादयतु]

तस्य पूर्णं नाम पुरोहितः तिरुनारायणय्यङ्गार्यः नरसिंहाचार्यः इति। १९०५ तमे वर्षे कर्णाटकस्य मेलुकोटे प्रदेशे जन्म प्राप्तवान्। एषः विद्याभ्यासं समाप्य चीफ् कमाण्डण्ट् कार्यालये वृत्तिजीवनम् आरब्धवान् । पु ति न इति एतस्य काव्यनाम । भावगीतानि, गीतनाटकानि, भावनाचित्राणि, रसचित्राणि, सङ्गीतरूपकाणि, प्रबन्धाः, विचारसाहित्यानि, लघुकथाः, गद्यानि, महाकाव्यानि एवं सर्वविधप्रकारेषु कृतीनां रचनां कृतवान्। गीतनाटकानि एतस्य प्रातिनिधिकप्रकारः। एतस्य गीतनाटकानि द्विधा विभक्तुं शक्यन्ते। साहित्यप्रधानानि, सङ्गीतप्रधानानि च इति। अहल्या-शबरी-हरिश्च्न्द्रादयः यद्यपि पौराणिकव्यक्तयः किन्तु अत्र पुतिनवर्येणदृष्टस्य तत्त्वस्य अभिव्यक्तिरूपेण सन्ति। जीवनस्य सत्यं यदा अवगम्यते तदा जीवनम् अर्थहीनम् इव दृश्यते। कृतकृत्यं चेतनं मुक्तिम् अभिलषति इति शबरी नाटकस्य सन्देशः । अहल्या गीतनाटकं विश्वे एव अनुपमम्। 'द्रोहियबिनद' तथा 'कवि' नामके द्वे नाटके विशिष्टे स्तः। प्रकृत्यां विद्यमानानां वस्तूनां कृते व्यक्तिरूपं यत् दत्तं तत् सा एका विशिष्टा शैली इति परिगण्यते। एषा शैली पुतिनवर्यस्य योगदानम् इति परिगण्यते । 'विकटकविविजय’नामकं नाटकं वस्तुदृष्ट्या महत्वपूर्णा कृतिः अस्ति । 'हणते’ 'मान्दळिरु’ 'शारदा यामिनी’ 'गणेशदर्शन' 'रससरस्वती’ 'मले देगुल' इत्यादिषु भावगीतेषु नवोदयकालस्य शैल्या सुन्दरप्रकृत्याः, प्रेम्नः, भक्तेः अध्यात्मस्य च विषयाः काव्यवस्तुरूपेणवर्णिताः सन्ति। एतादृशविषयैः सह राष्ट्रियजागरणस्य अन्तर्ध्वनिः अपि तस्य कृतीषु विशिष्ठं स्थानं प्राप्नोति। 'ईचलु मरद केळगे’ तथा 'धेनुकपुराण' इत्येते तस्य प्रबन्धसङ्कलने। अत्र संस्कृतसाहित्यशास्त्राभ्यां प्राप्ता तार्किकी शक्तिः लघुहास्यं विडम्बना स्फुटं दृश्यते।

प्रशस्तयः

[सम्पादयतु]

एतस्य 'हंसदमयन्ती मत्तु इतररूपकगळु' ग्रन्थाय १९६५तमवर्षस्य केन्द्रसाहित्य-अकाडेमी प्रशस्तिः, राज्यसाहित्य-अकाडेमी प्रशस्तिः, मैसूरुविश्वविद्यालयस्य गौरव-डी.लिट् प्रशस्तिःच प्राप्ता अस्ति। एतस्य 'श्रीहरिचरित' नामकस्य महाकाव्यस्य कृते पम्पप्रशस्तिः प्राप्ता अस्ति। पुतिनवर्यस्य 'ध्वजरक्षणम्' इत्यत्र विद्यमानाः काश्चन कथाः सत्यपूर्णाः सन्ति। एतस्याः कथायाः वस्तु यद्यपि राजकीयसङ्घर्षं वर्णयति तथापि आदर्शप्रियस्य युवकस्य अन्तरङ्गस्य तुमुलम् अत्यन्तं परिणामकारिरीत्या चित्रितम् अस्ति। एवं रीत्या द्विविधसङ्घर्षः कथायाः परिणामं बलवत्तरं करोति।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=पी_टी_नरसिंहाचार्य&oldid=480566" इत्यस्माद् प्रतिप्राप्तम्