महेशसंस्कृतगुरुकुलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


महेश-संस्कृत-गुरूकुलम् नेपालदेशस्य गण्डकीमण्डलस्य तनहूँजनपदस्य देवघट्टधाम्नि वर्तते । देवघट्टधाम नेपालदेशस्य पवित्रतमं तीर्थस्थलमस्ति । अत्र षष्ठीकक्षात आचार्यकक्षापर्यन्तमावासभोजनादिसौविध्यसहितं निःशुल्कं छात्राणां पठनपाठनादिकं भवति । महेश-संस्कृत-गुरुकुलम् माध्यमिकविद्यालय-विद्यापीठरूपेण भागद्वये विभक्तमस्ति । एतस्य शैक्षिकन्यासरुपेण महेश-संन्यास-आश्रमो विद्यते । अस्य संस्थापकः आध्यात्मदर्शनक्षेत्रे तथा च संस्कृतभाषासाहित्ये प्रवीणः लब्धविद्यावारिधिः स्वामी रामानन्दगिरिः वर्तते । अस्य गुरूकुलस्य स्थापना च २०५२ तमे वैक्रमाब्दे तत्रभवता स्वामिवर्येण रामानन्दगिरिमहाभागेन कृतास्ति । नेपालदेशस्य अतीव पवित्रतमे तीर्थस्थले देवघट्टे महेशसंस्कृतगुरूकुलस्य स्थानं महनीयमस्ति । भारतदेशात्, तथा अन्येभ्यः, अमेरिकाप्रभृतिदेशेभ्यश्च श्रद्धालवः भक्तसमूहा अत्र अागत्य यथेप्सितं सहयाेगं कुर्वन्ति । तस्मादमूल्यात् सहयाेगादेव एतेन गुरूकुलेन सम्वर्द्धनाय मलजलानां परमजीवनतुल्याे रसः प्राप्तः । भक्तानां श्रद्धारूपसहयाेगेन तथा स्वामिवर्यस्य सत्प्रयासात् शुभसंकल्पाच्च अतितरां प्रसन्नः भगवान् भूतनाथः एतद्गुरूकुलम् निरन्तरं प्रगतिपथे एव नयति स्म अधुना यावत् । अस्यैव चमत्काररूपेण अत्रत्याः छात्राः पूर्वमध्यमायाः कठाेरद्वाररूपेण स्थितां प्रवेशिकापरीक्षामपि सहसैव सारल्येन समुत्तरन्ति । तत्र च विशिष्टां श्रेणीं प्राप्नुवन्ति । महेशसंस्कृतगुरूकुलस्य वैभवः, महिमा, च नेपालदेशे यत्रकुत्रापि श्रूयत एव ।

२०६९ तमाद्वैक्रमाब्दात् शास्त्रिस्तरे अपि नव्यव्याकरणस्य पाठनमाधिकारिकरूपेणात्र नेपालसंस्कृतविश्वविद्यालयेन मान्यतादायि...।

आधाराः[सम्पादयतु]

बाह्याधाराः[सम्पादयतु]